________________
AUGUSAROGRA
मूलम्-उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगंमि चउक्त, विसोहिज जयं जई॥१२॥
जय जई ॥ १२॥४चतुर्विंशव्याख्या-'उग्गमुप्पायणंति' उद्गमोत्पादनादोषान् ‘पढमेत्ति' प्रथमायां गवेषणायां शोधयेदिति योगः । तत्रो
* मध्ययनम्. द्मदोषा आधाकर्मादयः षोडश, उत्पादनादोषा अपि धात्र्यादयस्तावन्त एवेति । 'बीएत्ति' द्वितीयायां ग्रहणैषणायां
" गा १२-१४ शोधयेत् , 'एसणंति' एषणादोषान् शङ्कितादीन् दश, 'परिभोगंमित्ति' परिभोगैषणायां चतुष्कं संयोजनाप्रमाणांगारधूमकारणरूपं, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् , विशोधयेत् 'जयंति' यतमानो यतिः । पुनः क्रियाभिधानमतिशयसूचकमिति सूत्रद्वयार्थः ॥ १२॥ आदाननिक्षेपसमितिमाहमूलम्-ओहोवहोवग्गहिअं, भंडगं दुविहं मुणी। गिण्हतो निक्खिवंतो अ, पउंजिज्ज इमं विहिं॥१३॥
व्याख्या-'ओहोवहोवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधिं च, भाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो द्विभेदं, मुनिः गृह्णन्निक्षिपंश्च प्रयुजीत इमं वक्ष्यमाणं विधिम् ॥ १३॥ तमेवाहमूलम्-चक्खुसा पडिलेहित्ता, पमजिज जयं जई। आइए निक्खिवेज वा, दुहओवि समिए सया १४|| व्याख्या-चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वार
A
%