SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ४६८ ॥ १५ १८ २१ २४ प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः । अनेन कायममसोस्तदेकाग्रमुक्तं, संयत ईय रीयेतेति सूत्रपञ्चकार्थः ॥ ८ ॥ | भाषासमितिमाह मूलम् — कोहे माणे अ मायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य ॥ ९ ॥ व्याख्या - क्रोधे माने मायायां लोभे चोपयुक्तता एकाग्रता, हास्ये भयमौखर्ये विकधासु तथैव चोपयुक्तता ॥९॥ | मूलम् - एआई अट्ठ ठाणाई, परिवजित्तु संजये । असावज मिअं काले, भासं भासिज्जपण्णवं ॥ १०॥ व्याख्या -- क्रोधाद्युपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतान्यनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्ज्य संयतः, असावद्यां निर्दोषां, मितां परिमितां, काले प्रस्तावे इति सूत्रद्वयार्थः ॥ १० ॥ | एषणासमितिमाह - मूलम् - गवेसणाए गहणे अ, परिभोगेसणा य जा । आहारोवहिसेजाए, एए तिणिवि सोहए ॥११॥ व्याख्या -- गवेषणायामन्वेषणायां ग्रहणे स्वीकारे उभयत्र एपणेति सम्बध्यते, ततो गवेषणायामेषणा, ग्रहणे च एपणा, परिभोगैषणा च या, 'आहारोव हिसेज्जा एत्ति' वचनव्यत्ययादाहारोपधिशय्यासु 'एएत्ति' लिङ्गव्यत्ययादेतास्तिस्र एषणा विशोधयेनिर्दोषाः कुर्यात् ॥ ११ ॥ कथं विशोधयेदित्याह चतुर्विंश मध्ययनम्. (२४) गा ९-११ ॥४६८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy