________________
उत्तराध्ययन ॥३३२॥
व्याख्या-स्पष्ट, नवरं 'महयत्ति' महत् संवेगनिर्वेद, तत्र संवेगो मोक्षाऽभिलाषः, निर्वेदः संसारोद्वेगः ॥१८॥
अष्टादशममूलम्-संजओ चइउं रज, निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ ध्ययनम् व्याख्या-संजयस्त्यक्त्वा राज्यं निष्क्रान्तः प्रत्रजितो जिनशासने न त्वन्यत्र, गईभालेभंगवतोऽनगारस्याऽन्तिके,
मागा १९-२१ स चैवं प्रव्रज्याधिगतश्रुतः सामाचारीरतोऽप्रतिबद्धतया विहरन् कश्चित्सन्निवेशमगात्तत्र च यदभूत्तदाह ॥ १९॥ मूलम्-चिच्चा रडं पवइए, खत्तिए परिभासई । जहा ते दीसइ रूवं, पसन्नं ते तहा मणो ॥ २० ॥
व्याख्या-त्यक्त्वा राष्ट्रं देशं प्रत्रजितः क्षत्रियः क्षत्रियजातिरनिद्दिष्टनामा कोपि मुनिः परिभाषते संजयराजर्षिमिति शेषः, स हि पूर्वभवे वैमानिकोऽभूत्ततश्युतश्च क्षत्रियकुले राजा जातस्तत्र च कुतोऽपि निमित्ताजातजातिस्मृतिस्तत एवं विरक्तः प्रव्रज्य विहरन् संजयमुनिं प्रेक्ष्य तत्परीक्षार्थमिदमाचख्यौ, यथा ते दृश्यते रूपं प्रसन्नं निर्विकारं ते तव तथा मनोऽपि प्रसन्नं वर्तते इति शेषः, अन्तः कालुष्ये हि सति बहिनँवं प्रसन्नता स्यादिति भावः ॥ २०॥ किञ्चमूलम्-किं नामे किं गोत्ते, कस्सट्राए व माहणे। कहं पडिअरसी बुद्धे,कहं विणीएत्ति वुच्चसी? ॥२१॥ ___ व्याख्या-किंनामा ? किं गोत्रः? 'कस्सठाएवत्ति' कस्मै वा अर्थाय माहनः प्रव्रजितः ? कथं केन प्रकारेण प्रति
॥३३२॥ चरसि सेवसे वुद्धानाचार्यादिन् ? कथं विनीत इत्युच्यसे ? इति सूत्रचतुष्कार्थः॥ २१॥ संजयमुनिराह
२४