________________
१२
मूलम् — निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ॥ १५ ॥ व्याख्या – 'निहरंति' निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि पितरोऽपि तथा पुत्रान् 'बंधूत्ति' बन्धविश्च बन्धूनिति शेषः, ततो राजंस्तपश्चरेरासेवेथाः ॥ १५ ॥
मूलम् - तओ तेण जिए दवे, दारे अ परिरक्खिए । कीलंतन्ने नरा रायं, हडतुडा अलंकिआ ॥ १६ ॥
व्याख्या - ततो निस्सारणानन्तरं तेन पित्रादिनाऽर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैर्दारैश्चेति गम्यं, अन्ये नरा राजन् ! हृष्टतुष्टा अलङ्कृतास्तत्र हृष्टा बहिः पुलकादिमन्तः, तुष्टा आन्तरप्रेमभाजः, अलङ्कृताः विभूषिताः, यतः ईदृशी भवस्थितिस्ततो राजंस्तपश्चरेरिति सम्बन्धः ॥ १६ ॥ मृतस्य का वार्त्तेत्याहमूलम् - तेणावि जं कयं कम्मं, सुहं वा जइवा ऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ॥ १७॥
व्याख्या - तेनाऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तरतुशब्दस्यैव कारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति परमन्यं भवं यत एवं शुभाशुभयोरेवानुयायित्वं ततः शुभहेतुं तप एव चरेरिति सूत्रसप्तकार्थः ॥ १७ ॥ ततश्च -
मूलम् - सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिवेअं, समावण्णो नराहिवो ॥ १८ ॥
अष्टादशम ध्ययनम् गा १५-१८