SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३३१ ॥ १५ १८ २१ २४ मूलम् - अभओ पत्थिवा तुब्भं, अभयदाया भवाहि अ । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ? ॥११॥ व्याख्या -अभयं पार्थिव ! तब न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति, अभयदाता च प्राणिनां प्राणत्राणकर्त्ता 'भवाहिअत्ति' भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसायां प्रसज्जसि ? नरकहेतुरियं कर्त्तुं नोचितेति भावः ॥ ११ ॥ किञ्च - मूलम् — जया सवं परिच्चज्ज, गंतव्वमवसस्स ते । अनिच्चे जीवलोगंमि, किं रज्जमि पसज्जसि ? ॥१२॥ व्याख्या -- यदा सर्व कोशान्तः पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, अवशस्य अस्वतंत्रस्य ते तब ततोऽनित्ये जीवलोके किं राज्ये प्रसज्जसि ? ॥ १२ ॥ अनित्यतामेव भावयति मूलम् - जीविअं चेव रूवं च, विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं, पेच्चत्थं नावबुज्झसे ॥१३॥ व्याख्या - जीवितं चैव रूपं च विद्युत्सम्पातो विद्युच्चलनं तद्वच्चञ्चलं विद्युत्सम्पातचञ्चलं यत्र जीविते रूपे च त्वं मुह्यसि हे राजन् ! प्रेत्यार्थ परलोककार्य नावबुध्यसे ॥ १३ ॥ तथा मूलम् - दाराणि अ सुआ चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयंति अ ॥ १४ ॥ व्याख्या -- दाराश्च सुताश्चैव मित्राणि च तथा बान्धवाः जीवन्तं अनुजीवन्ति तदर्जितवित्ताद्युपभोगेन, मृतं नानुव्रजन्त्यपि चशब्दस्याऽप्यर्थत्वात् कथं पुनः सहायाः स्युरित्यतः कृतघ्नेषु तेषु नास्था कार्येति भावः ॥ १४ ॥ अष्टादशम ध्ययनम् (१८) गा ११-१४ ॥ ३३१ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy