SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ६ १२ ० ५६ व्याख्या - अथ राजा तत्र मुनिदर्शने जाते सति सम्भ्रान्तो भीतो यथाऽनगारो मनाक् स्तोकेनैवाऽहतो न मारितः तदासन्नमृगहननादिति भावः, मया 'तुः' पूर्तों, मन्दपुण्येन रसगृद्धेन 'घण्णुणत्ति' घातुकेन हननशीलेन ॥७॥ मूलम् -- आसं विसज्जइत्ता णं, अणगारस्स सो निवो। विणएणं वंदए पाए, भगवं एत्थ मे खमे ॥८॥ व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः विनयेन वन्दते पादौ वक्ति च यथा भगवन् ! अत्र मृगवधे मे ममापराधमिति शेषः, क्षमख ॥ ८॥ मूलम् - अह मोणेण सो भयवं, अणगारो झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयद्दुओ ९ व्याख्या - अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं न प्रतिमंत्रयति न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, ततो हेतो राजा भयद्भुतो भयत्रस्तोऽभूत् यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ॥ ९ ॥ प्रोचे च यथा 2 मूलम् - - संजओ अहमस्तीति, भयवं वाहराहि मे । कुद्धो तेपण अणगारे, दहिज नरकोडिओ ॥१०॥ व्याख्या - संजयनामा राजाहमस्मि न तु नीच इति भावः इत्येतस्माद्धेतोर्हे भगवन् ! व्याहरू सम्भाषय 'मे' इति मां, किमेवं भवान् भयद्रुत इत्याह- क्रुद्धस्तेजसाऽनगारो दहेन्नरकोटीरास्तां शतं सहस्रं चेत्यतो भयद्रुतोऽहमिति सूत्रचतुष्कार्थः ॥ १० ॥ इत्थं तेनोक्ते मुनिराह - अष्टाशमध्ययनम् गा ८-१०
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy