________________
*
उत्तराध्ययन
अष्टादशमध्ययनम् (१८) गा४-७
MASARAN
श्रान्तानितस्ततः प्रेरणेन खिन्नान् मितान् परिमितान् तत्र तेषु मृगेपु मध्ये 'वहेइत्ति' हन्ति, रसमूर्छितस्तन्मासाखा| दलुब्ध इति सूत्रद्वयार्थः ॥ ३॥ तदा च यदभूत्तदाह
मूलम्-अह केसरंमि उजाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियायइ॥४॥ ____ व्याख्या-अथानन्तरं केसरोद्याने अनगारस्तपोधनः स्वाध्यायध्यानसंयुक्तो यथावसरं तदासेवनात् अत एव धर्मध्यानं ध्यायति ॥४॥ मूलम्-अफोवमंडवंसि, झायइ झविआसवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥५॥ ____ व्याख्या-'अफोव' इति वृक्षाद्याकीर्णः स चासौ मण्डपश्च नागवल्यादिसम्बन्धी अफोवमण्डपस्तस्मिन् ध्यायति || धर्मध्यानमिति शेषः, पुनरस्याभिधानमतिशयद्योतकं, 'झविअत्ति' क्षपिता आश्रवा हिंसादयो येन स तथा, तस्य मुनेरागतान् मृगान् पार्थ समीपं 'वहेइत्ति हन्ति स नराधिपः इति सूत्रद्वयार्थः ॥५॥ मूलम्-अह आसगओराया, खिप्पमागम्म सो तहिं। हए मिए उपासित्ता, अणगारंतत्थ पासई॥६॥ | व्याख्या-अथानन्तरमश्वगतो राजा क्षिप्रमागम्य स तस्मिन् मण्डपे हतान् 'मिए उत्ति' मृगानेव न पुनर्मुनि- मित्यर्थः, दृष्ट्वा अनगारं तत्र पश्यति इति सूत्रार्थः ॥ ६॥ ततोऽसौ कि ? चकारेत्याहमूलम्-अह राया तत्थ संभंतो, अणगारो मणाहओ। मए उ मंदपुण्णेणं, रसगिद्धेण घण्णुणा ॥७॥
३३०॥
ASA*