________________
॥ अथ अष्टादशमध्ययनम् ॥
अष्टादशम
ध्ययनम्
ASASRHABHAR
गा १-३
॥ अहम् ॥ उक्तं सप्तदशमध्ययनमथाष्टादशं संयतीयाख्यमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने पापस्थानवर्जनमुक्तं, तच भोगर्द्धित्यागेन संजयनृपवद्विधेयमिति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेणं संजए नाम, मिगवं उवनिग्गए ॥१॥
व्याख्या-काम्पील्ये काम्पील्यनाम्नि नगरे राजा उदीर्णमुदयप्राप्तं बलं चतुरङ्गं वाहनं च शिविकादिरूपं यस्य | स तथा, स च नाम्ना संजयो 'नामेति' प्राकाश्य, ततः संजय इति प्रसिद्धो मृगव्यां मृगयां प्रतीति शेषः, उपनिगतो निर्यातः पुरादिति गम्यते, इति सूत्रार्थः ॥ १॥ स च कथं निर्गतः ? किं चकारेत्याहमूलम् हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सबओ परिवारिए ॥ २॥ ___ व्याख्या-सर्वत्र सुब्व्यत्ययात् हयानीकेन गजानीकेन रथानीकेन तथैव च पदातीनां समूहः पादातं तदनीकेन च महता सर्वतः परिवारितः ॥२॥ मूलम्-मिए छभित्ता हयगओ, कंपिल्लूजाणकेसरे। भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥३॥ व्याख्या-मृगान् क्षिप्त्वा प्रेर्य हयगतोऽश्वारूढः काम्पील्यस्य सम्बन्धिनि केसरनाम्नि उद्याने भीतान् त्रस्तान्
A