________________
उत्तराध्ययन ॥३२९॥
सप्तदशमध्ययनम् (१७) गा २१
मूलम्-जो वजए एए सया उ दोसे, से सुवए होई मुणीण मज्झे।
अयंसि लोए अमयंव पूईए, आराहए लोगमिणं तहा परंति बेमि ॥ २१॥ व्याख्या-यो वर्जयत्येतान् उक्तरूपान् ‘सया उत्ति' सदैव दोषान् स सुव्रतःप्रशस्यव्रतो भवति मुनीनां मध्ये भावमुनित्वेनासौ तन्मध्ये गण्यत इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पूजित आराधयति लोकमिमं तथा 'परंति' परलोकमिति सूत्रद्वयार्थः, इति ब्रवीमीति प्राग्वत् ॥ २१॥ ആയയായമായ കാര
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्या-दि यश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तदशमध्ययनं सम्पूर्णम् ॥ १५॥ न्टन्डन्न्ट
न्ट
॥३२९॥