________________
सप्तदशमध्ययनम् गा१८-२०
मूलम्-सयं गेहं परिच्चज, परगेहंसि वावरे । निमित्तेण य ववहरइ, पावसमणेत्ति वुच्चइ ॥ १८॥ ___ व्याख्या-खकं गेहं निजगृहं परित्यज्य परगेहे 'वावरेत्ति' व्याप्रियते पिण्डादिलोभात्खयं तत्कृत्यानि विधत्ते, |निमित्तेन च शुभाशुभकथनादिना व्यवहरति द्रव्याद्यर्जयति ॥ १८ ॥ मूलम्-सण्णाइपिंडं जेमेइ, नेच्छइ सामुदाणि। गिहिनिसिजं च वाहेइ, पावसमणेत्ति वुच्चइ १९
व्याख्या-खजातिभिर्निजबन्धुभिर्यः स्नेहाहीयते पिण्डः स्वजातिपिण्डस्तं जेमति भुक्ते, नेच्छति सामुदानिकं भैक्ष्यं, गृहिनिषद्यां पर्यङ्किकादिकां वाहयति सुखशीलतया रोहति यः स पापश्रमण उच्यते इति सूत्रसप्तदशकार्थः॥१९॥ अथाध्ययनार्थमुपसंहरनुक्तदोषासेवनत्यागयोः फलमाह
मूलम्-एआरिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिडिमे।
अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ॥२०॥ व्याख्या-एतादृशो यादृश उक्तः, पञ्चकुशीलाः पार्श्वस्थादयस्तद्वदसंवृतः पञ्चकुशीलासंवृतः रूपधरो रजोहरणादिवेषधरः, विन्दुश्चेह प्राकृतत्वात् , मुनिप्रवराणां प्रवरयतीनां 'हेडिमेत्ति' अधोवती अतिजघन्यसंयमस्थानवर्त्तितया निकृष्टः 'अयंसित्ति' अस्मिन् लोके विषमिव गर्हितो भ्रष्टप्रतिज्ञतया प्राकृतजनैरपि निन्दितोऽत एव न स 'इहंति' इहलोके नैव नापि परलोके अर्घ्यत इति शेषः ॥ २०॥