________________
उत्तराध्ययन
सप्तदशमध्ययनम्
॥३२८
गा १५-१७
AARAAAAAAAAA
मूलम्-दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवो कम्मे, पावसमणेत्ति वुच्चइ ॥१५॥ ___ व्याख्या-'दुद्धदहित्ति' दधिदुग्धे विकृतिहेतुत्वाद्विकृती, उपलक्षणश्चैतद् घृताद्यशेषविकृतीनां, आहारयति अभीक्ष्णं वारं वारं तथाविधकारणं विनापीति भावः, अत एवारतश्च तपःकर्मणि अनशनादौ ॥१५॥ मूलम्-अत्यंतंमि अ सूरंमि, आहारेइ अभिक्खणं। चोइओ पडिचोएइ, पावसमणेत्ति वुच्चइ ॥१६॥ | व्याख्या--अस्तमयति चः पूरणे सूर्ये आहारयत्यभीक्ष्णं प्रतिदिनमित्यर्थः, यदि चायं केनचिद्गीतार्थेन प्रेर्यते यथाऽऽयुष्मन् ? किमेवमाहारतत्पर एव तिष्ठसि ? दुर्लभा खल्वियं धर्मसामग्री ! ताञ्च प्राप्य तपस्युद्यन्तुमुचितमिति, ततः किमित्याह-चोदितःप्रेरितःप्रतिचोदयति, यथा दक्षस्त्वमुपदेशं दातुं न तु खयं विधातुं ! नो चेदेवं विदन्नपि किं न विकृष्टं तपोऽनुतिष्ठसीति ॥ १६ ॥ मूलम्-आयरिअ परिच्चाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणेत्ति वुच्चइ ॥ १७॥ ___ व्याख्या-आचार्यपरित्यागी, ते हि तपः कारयन्ति आनीतमपि चान्नादि ग्लानादिभ्यो दापयन्यतोऽत्यन्तमाहारलोल्यात्तत्परित्यागशीलः, परपापण्डान् “मृद्वी शय्या प्रातरुत्थाय पेया" इत्याद्युपदिशतः सौगतादीन् अत्यन्ताहारप्रसक्तान् संवते परपापण्डसेवकः, तथा खच्छन्दतया गणागणं पण्मासाभ्यन्तर एव संक्रामतीति गाणंगणिकोऽत एव दुष्टु भूतो जातो र्दुभूतो दुराचारतया निन्द्यत्वं प्राप्त इत्यर्थः ॥ १७॥
॥३२८॥