________________
सप्तदशमध्ययनम् गा१२-१४
Mद्यमानेन्द्रियमनोनिग्रहः, असंविभागी कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, 'अचिअत्तेत्ति'
गुर्वादिष्वपि अप्रीतिमान् ॥ ११॥ मूलम्-विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणेत्ति वुच्चइ ॥१२॥ ___ व्याख्या-विवादं वाकलह, चः पूरणे, उदीरयति उपशान्तमपि मर्मभाषणादिना वर्द्धयति, अधर्मो निधर्मः, आप्तां सद्बोधरूपतया इहपरलोकयोहितां प्रज्ञामात्मनोऽन्येषाञ्च सुबुद्धिं कुतर्कव्याकुलीकरणेन हन्ति यः स आप्तप्रज्ञाहा, व्युद्हे दण्डादिघातजनिते विरोधे, कलहे वाचिके विरोधे, रक्तः सक्तः ॥ १२॥ मूलम्-अथिरासणे कुक्कुइए, जत्थतत्थ निसीअइ। आसणंमि अणाउत्ते, पावसमणेत्ति वुच्चइ ॥१३॥ ___ व्याख्या-अस्थिरासनः, कुकुचो हास्यविकथादिचापल्यवान् , यत्र तत्र संसक्तसरजस्कादावपीत्यर्थः, निषीदति पीठादी, अत एवाऽऽसनेऽनायुक्तोऽनुपयुक्तः ॥ १३॥ मूलम्-ससरक्खपाओ सुअइ, सिजं न पडिलेहइ । संथारए अणाउत्ते, पावसमणेत्ति वुच्चइ ॥१४॥
व्याख्या-सरजस्कपादः खपिति, कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, शय्यां है वसतिं न प्रतिलेखयति न प्रमार्जयति, संस्तारके कम्बलादौ सुप्त इति शेषः, अनायुक्तः "कुक्कुडिपायपसारण" इत्याद्या
गमार्थानुपयुक्तः ॥ १४ ॥ अथ तपोविषयं पापश्रमणमाह