________________
उत्तराध्ययन
॥ ३२७ ॥
१५
१८
२१
२४
मूलम् - दवदवस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणेत्ति वुच्च ॥ ८ ॥ व्याख्या- 'दवदवस्सत्ति' द्रुतं द्रुतं तथाविधालम्बनं विनापि सत्वरं चरति भिक्षाचर्यादौ पर्यटति, प्रमत्तश्च अभीक्ष्ण पुनः पुनर्भवतीति शेषः, उल्लङ्घनश्च वत्स डिम्बादीनामधः कर्त्ता, चण्डः क्रोधनश्चारभटवृत्तिश्रयणाद्वा शेषं प्राग्वत् ॥ ८ ॥ मूलम् — पडिलेहेइ पत्ते, अवउज्झइ पायकंबलं । पडिलेहणा अणाउत्ते, पावसमणेति च ॥ ९ ॥ व्याख्या -- प्रतिलेखयति प्रमत्तः सन् अपोज्झति यत्र तत्र निक्षिपति पादकम्बलं पादपुञ्छनं, समस्तोपधेरुपलक्षणमेतत् स एवं प्रतिलेखनायामनायुक्तोऽनुपयुक्तः प्रतिलेखनाऽनायुक्तः ॥ ९ ॥
मूलम् - पडिलेहेइ पमत्ते, जं किंचि हु णिसामिआ । गुरुपरिभावए निचं, पावसमणेत्ति वुच्च ॥ १०॥
व्याख्या - प्रतिलेखयति प्रमत्तः सन् यत्किञ्चिद्विकथादि निशम्य श्रुत्वा तदाक्षिप्तचित्ततयेति भावः, गुरून् परि| भवतीति गुरुपरिभावको नित्यं, अयं भावः - प्रतिलेखनादौ वितथं कुर्वन् गुरुभिर्नोदितस्तानेव वक्ति यथा स्वयमेवेदं कुरुत युष्माभिरेव वा वयमेवं शिक्षिताः ततो युष्माकमेवासौ दोष इत्यादि ॥ १० ॥
मूलम् - बहुमायी पमुहरी, थद्वे द्वे अणिग्गहे । असंविभागी अचिअत्ते, पावसमणेत्ति वुच्चइ ॥ ११ ॥ व्याख्या -- बहुमायी प्रभूतवञ्चनाप्रयोगवान्, प्रमुखरः प्रकर्षेण मुखरोऽसम्बद्धः, स्तब्धो लुब्धः, अनिग्रहः अवि
सप्तदशमध्ययनम् (१७)
गा ८-११
॥ ३२७ ॥