________________
१२
व्याख्या—आचार्योपाध्यायैः श्रुतं विनयं च ग्राहितः शिक्षितो यैरिति शेषः, तानेवाचार्यादीन् खिंसति निन्दति बालो विवेकविकलो यः स पापश्रमणः ॥ ४॥
मूलम् - आयरियउवज्झायाणं, सम्मं नो परितप्पई । अप्पडिपूअए थद्धे, पावसमणेत्ति वुच्चइ ॥ ५ ॥ व्याख्या-- आचार्योपाध्यायानां सम्यग् अवैपरीत्येन न परितप्यते न तत्ततिं विधत्ते तेषां वैयावृत्त्यादिचिन्तां न सम्यकरोतीत्यर्थः, अप्रतिपूजको जिनादीनां यथोचितप्रतिपत्तिपराङ्मुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी, स्तब्धो गर्वाध्मातो यः स पापश्रमणः ॥ ५ ॥ इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाहमूलम् - समद्दमाणे पाणाणि, बीआणि हरिआणि अ । असंजए संजयमन्नमाणे, पावसमणेत्ति बुच्चइ ६
व्याख्या -- संमर्दयन् प्राणान् प्राणिनो द्वीन्द्रियादीन्, बीजानि शाल्यादीनि, हरितानि च दूर्वादीनि, सर्वैकेन्द्रियोपलक्षणमेतत्, अत एवासंयतः 'संजयमन्नमाणेत्ति संयतमात्मानं मन्यमानोऽनेन च संविग्नपाक्षिकत्वमपि तस्य नास्तीत्युक्तं, शेषं प्राग्वत् ॥ ६ ॥
मूलम् - संथारं फलगं पीठं, निसिज्जं पायकंबलं । अपमजिअ आरुहइ, पावसमणेत्ति वुच्चइ ॥ ७ ॥
व्याख्या - संस्तारकं कम्बलादिकं, फलकं दारुमयं, पीठमासनं, निषद्यां खाध्यायभूमिं पादकम्बलं पादपुञ्छनं, अप्रमृज्य रजोहरणादिना उपलक्षणत्वादप्रत्युपेक्ष्य च आरोहति यः स पापश्रमणः ॥ ७ ॥
सप्तदशमध्ययनम् गा ५-७