SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३२६॥ सप्तदशमध्ययनम् गा२-४ मूलम्-सिज्जा दढा पाउरणं मे अत्थि, उपजइ भोत्तुं तहेव पाउं। __ जाणामि जं वदृइ आउसोत्ति, किं नास काहामि सुएण भंते ॥२॥ व्याख्या-शय्या वसतिदृढा वातातपजलाधुपद्रवरहिता, तथा प्रावरणं वर्षाकल्पादि मे मम अस्ति, किञ्चोत्पद्यते भोक्तुं भोजनाय, तथैव पातुं पानाय, यथाक्रममशनं पानञ्चेति शेषः। तथा जानामि यद्वर्त्तते यदिदानीमस्ति तदिति शेषः, आयुष्मन्निति प्रेरयितुमामंत्रणं, इति एतस्माद्धेतोः किं नाम न किंचिदित्यर्थः, 'काहामित्ति' करिष्यामि ? श्रुतेनाग|मेनाधीतेनेति गम्यं,भदन्त! इति पूज्यामंत्रणं। अयं हि तस्याशयः, ये हि भवन्तोऽधीयन्ते तेपि नातीतादि किंचिजानन्ति, किन्तु वर्तमानमेव तच्च वयमपि विग्रो वसतिवसनाशनपानादीनि च सुखं युष्मद्वद्वयमपि प्राप्नुमस्तकिं ? हृद्गलतालुशोषकारिणाधीतेनेति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ॥२॥ किञ्चमूलम्-जे केइ पवइए, निद्दासीले पगामसो। भोच्चा पेच्चा सुहं सुअइ, पावसमणेत्ति वुच्चइ ॥३॥ व्याख्या-यः कश्चित् प्रव्रजितो निद्राशीलः प्रकामशो भृशं भुक्त्वा दध्योदनादि, पीत्वा तक्रादि, सुखं यथा स्यात्तथा सकलक्रियानिरपेक्ष एव शेते स पापश्रमण इत्युच्यते इति ॥ ३॥ मूलम्-आयरिअउवज्झाएहिं, सुअं विणयं च गाहए। ते चेव खिंसई बाले, पावसमणेत्ति वुच्चइ ॥४॥ ॥३२६॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy