SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तदशमध्ययनम् ॥ सप्तदशमध्ययनम् गा १ ॥ॐ॥ व्याख्यातं षोडशमध्ययनं, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चामयमभिसम्बन्धः, इहानन्तरा-1 ध्ययने ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रद्वयम् मूलम्-जे केइ उ पवईए निअंठे, धम्म सुणित्ता विणओववण्णे । सुदुल्लहं लहिउं बोहिलाभ, विहरिज पच्छा य जहासुहं तु ॥१॥ व्याख्या-- यः कश्चित्तुः पूरणे प्रव्रजितो निर्ग्रन्थः, कथं पुनः प्रबजितः ? इत्याह-धर्म शुभचारित्ररूपं श्रुत्वा विनयेन ज्ञानविनयादिना उपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुःप्रापं लब्ध्वा बोधिलाभं जिनधर्मावाप्तिरूपं, अनेन भावप्रतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति । विहरेत्पश्चादीक्षादानोत्तरकालं चः पुनरर्थे ततश्च प्रथमं सिंहतया | प्रव्रज्य पश्चात्पुनः 'जहासुहं तुत्ति' तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिप्रमादपरतया शृगालवृत्त्यैव विहरेदित्यर्थः॥१॥ स च गुर्वादिनाऽध्येतुं प्रेरितो यद्वक्ति तदाह
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy