________________
१२
मूलम् - गोअमो पडिरूवण्णू, सीससंघसमाउले । जिट्टं कुलमविक्खंतो, तिंदुअं वणमागओ ॥ १५ ॥ व्याख्या - गौतमः प्रतिरूपं प्रतिरूपविनयं यथोचितप्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेद्वंति' प्राग्भावित्वेन ज्येष्ठं कुलं श्रीपार्श्वनाथसन्तानं अपेक्षमाणो गणयन् ॥ १५ ॥
| मूलम् - केसी कुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवर्त्ति, सम्मं संपडिवज्जइ ॥ १६ ॥ व्याख्या - 'पडिरूवंति' प्रतिरूपां उचितां प्रतिपत्तिमभ्यागत कर्त्तव्यरूपां सम्यक् संप्रतिपद्यते करोतीति भावः ॥ १६ ॥ प्रतिपत्तिमेवाह
मूलम् - पलालं फासुअं तत्थ, पंचमं कुसतणाणि अ । गोअमस्स णिसिजाए, खिप्पं संपणामए १७
व्याख्या - पलालं प्रासुकं, तत्र तिन्दुकोद्याने, 'पंचमंति' वचनव्यत्ययात् पञ्चमानि कुशतृणानि च पञ्चमत्वं चैषां पलालभेदचतुष्कापेक्षया । यदुक्तं - “तणपणगं पुण भणिअं, जिणेहिं कम्मट्ठगंठिमहणेहिं ॥ सोली- वीही-कोद्देवरॉलय-रण्णे तैणाई च" । गौतमस्य निषद्यायै उपवेशनार्थं क्षिप्रं संप्रणामयति समर्पयतीति सूत्रचतुष्कार्थः ॥ १७ ॥ तौ चोपविष्टौ यथा प्रतिभातस्तथाह
मूलम् — केसीकुमारसमणे, गोअमे अ महायसे । उभओ न्निसन्ना सोहंति, चंदसूरसमप्पहा ॥ १८ ॥ व्याख्या - [ स्पष्टम् ] तत्सङ्गमे च यदभूत्तदाह
त्रयोविंश
४ मध्ययनम्. केशिगौतमसंवादः
गा १५-१८