SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ६ 3x3x3 - % मूलम् — तस्स लोग प्पईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥ २ ॥ व्याख्या – 'केसित्ति' केशिनामा, कुमारश्चासावपरिणीततया श्रमणश्च तपखितया कुमारश्रमणः, विद्याचरणयोज्ञनचारित्रयोः पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यस्य हि श्रीवीरतीर्थप्रवृत्ति| कालं यावदवस्थानानुपपत्तेः ॥ २ ॥ मूलम् - ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थिं नगरिमागए ॥ ३ ॥ व्याख्या- 'ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च बुद्धो ज्ञाततत्वः शिष्यसंघेन समाकुलः परिवृतः शिष्यसंघसमाकुलः, ग्रामानुग्रामं रीयमाणो विहरन् ॥ ३ ॥ मूलम् - तिंदुअं नाम उज्जाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवा ॥ ४ ॥ व्याख्या – ' तम्मित्ति ' तस्याः श्रावस्त्याः, नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके स्वाभाविकागन्तुकसत्वरहिते, शय्या वसतिः तस्यां संस्तारकः शिलाफलकादिस्तस्मिन् तत्र तिन्दुकोद्याने बासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्रान्तरे यदभूत्तदाह १ शिष्यसंघसमाकुल: ' नास्त्ययं पाठ: "घ" संज्ञकपुस्तके ॥ त्रयोविंशमध्ययनम्. केशिगौत मसंवादः गा २-४
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy