________________
१२
स्तस्थौ, खामी तु समतानिधिः ! ॥३०७॥ तथाऽपि वीक्ष्य वर्पन्त-ममर्पण कठासुरम् ॥ जातकोपो नागनाथः, साक्षेपमि| दमभ्यधात् ॥ ३०८ ॥ खोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया १ ॥ दयालोरपि दासोऽहं, सहिष्ये न ह्यतः परम् ! ॥ ३०९ ॥ ज्वलन्महोरगः पापान्निषेद्धुं स्वामिनाऽमुना ॥ तदाऽदर्श्यत चेत्तर्हि, विप्रियं तव किं कृतम् ॥ ३१० ॥ निष्कारणजगन्मित्र-मेनं घूक इवारुणम् ॥ हेतोर्विना द्विषन्नद्य, न भविष्यसि पाप रे ! ॥ ३११ ॥ तदाकर्ण्य वचो मेघ-माली दृष्टिमधो न्यधात् ॥ फणीन्द्रसेवितं पार्श्व-मपश्यच्च तथास्थितम् ॥ ३१२ ॥ दध्यौ च चकितः शक्ति| रियत्येवाखिला मम ॥ सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ॥ ३१३ ॥ किं चायं भगवान्मुष्ट्या, पेष्टुं वज्रमपि क्षमः ॥ क्षमया क्षमते सर्व, भोगीन्द्राद्भीस्तथापि मे ॥ ३१४ ॥ न चान्यच्छरणं विश्वे मम विश्वेशवैरिणः ॥ तदे नमेव शरणी - करोमि करुणाकरम् ।। ३१५ ।। ध्यात्वेति मेघं संहत्य, सोऽसुरः सार्वमाश्रयत् ॥ मदागोऽदः क्षमखेति, प्रोच्यागाच्च खमास्पदम् ॥ ३१६ ॥ नागेन्द्रोऽपि जिनं ज्ञात्वा ऽनुपसर्ग प्रणम्य च ॥ निजं स्थानं ययौ प्रात- जिं नोऽपि व्यहरत्ततः ॥ ३१७ ॥ छद्मस्थत्वेन चतुर - शीतिमहां विहृत्य च ॥ तदाश्रमपदोद्यानं, पुनरप्याययौ प्रभुः ॥ ३१८ ॥ ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः ॥ इन्द्राश्चोपेत्य समय-सरणं चक्रिरेऽखिलाः ॥ ३१९ ॥ पूर्वसिंहासने तत्रा-सीने श्रीपार्श्वपारगे ॥ त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्यधुः ॥ ३२० ॥ यथास्थानं निषण्णेषु, सुरासुरनरेष्वथ ॥ गिरा योजनगामिन्या, प्रारेभे देशनां प्रभुः ॥ ३२१ ॥ ज्ञात्वा ज्ञानोदयं पार्श्व - प्रभोरुद्यानपाल
त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः ||३०७-३२१