________________
उत्तराध्ययन
॥४५२॥
१५
१८
२१
२४
यमदोर्दण्डवञ्चण्डा-न्नैकान्नेत्रविपानहीन् ॥ २९४ ॥ उत्कटैः कण्टकैः स्वास्थ्य-त्रश्चकान् वृश्चिकांस्तथा ॥ भलूकशूकरादींश्च, श्वापदानापदां विधीन् ॥ २९५ ॥ ज्वालामाला करालास्यान्मुण्डमालाढ्य कन्धरान् ॥ प्रेतान् विश्वानभिप्रेता-कारांश्च विचकार सः ॥ २९६ ॥ [ त्रिभिर्विशेषकम् ] प्रभोर्ध्यानं चलयितुं, तेऽपि न प्रभवोऽभवन् ॥ वज्रं | भेत्तुमिवोद्देश-कीटिका मत्कुणादयः । ॥ २९७ ॥ ततः क्रुद्धोऽधिकं गर्जा - विद्युद्याप्तदिगन्तराम् ॥ मेघमाली मेघमालां, विचक्रे व्योनि भीषणाम् ! ॥ २९८ ॥ नीरैरेनं प्लावयित्वा हन्म्यहं पूर्वविद्विषम् ॥ ध्यायन्निति ससंरम्भः, प्रारभ सोऽथ वर्षितुम् ॥ २९९ ॥ धाराभिर्मुष्टिमुशल - यूपाकाराभिरुच्चकैः ॥ वर्ष वर्ष व्यधादेका-वामिव वसुन्धराम् ॥ ३०० ॥ अभूदाकण्ठमुदकं तदा पार्श्वप्रभोः क्षणात् ॥ तदा तदास्यं तत्राभा - पद्मं पद्महदे यथा ॥ ३०१ ॥ नासापार्श्व पार्श्वभर्तुः पयो यावदुपाययौ ॥ चचाल विष्टरस्ताव - द्धरणस्योरगप्रभोः ॥ ३०२ ॥ सोऽथ ज्ञात्वाऽवधेः स्वामी - वृत्तान्तं महिषीवृतः ॥ तत्रागत्य द्रुतं भक्तिं, व्यक्तिकुर्वन्ननाम तम् ॥ ३०३ ॥ उन्नालं नलिनं न्यस्य, खामिनः क्रमयोरधः ॥ भोगाभोगेन भोगीन्द्रः, पृष्टपार्श्वादिकं प्यधात् ॥ ३०४ ॥ तन्मौलौ तु व्यधाच्छत्रं, फणीन्द्रः सप्तभिः फणैः ॥ ध्यानलीनमनाः खामी, तत्र तस्थौ सुखं ततः ॥ ३०५ ॥ नागराज महिष्योऽपि, नृत्यं चक्रुः प्रभोः पुरः ॥ | वेणुवीणा मृदंगादि - ध्वनिव्याप्तदिगन्तरम् ॥ ३०६ ॥ भक्तिकारिणि भोगीन्द्रे, द्वेषधारिणि चासुरे ॥ निर्विशेषमना१ छेदकान् ॥
त्रयोविंशमध्ययनम्(२३) पार्श्वनाथचरित्रलेशः २९४-३०६
॥४५२॥