________________
३
१२
षेकः श्रीपार्श्व - प्रभोश्चक्रे महामहैः ॥ २८१ ॥ अथारूढः सुरैरूढां, विशालां शिविकां विभुः ॥ देवदुन्दुभिनिर्घोषा - पूर्णद्यावाक्षमान्तरः ॥ २८२ ॥ श्रेयसां विश्रमपदं गत्वाऽऽश्रमपदं वनम् ॥ याप्ययानादवातारी - न्ममत्वादिव तन्मनः ॥ २८३ ॥ [ युग्मम् ] विहाय तत्र भूषादि, मूर्ध्नि लोचं विधाय च ॥ वामस्कन्धे देवदूष्यं दधन्यस्तं विडौजसा ॥ २८४ ॥ त्रिंशद्वर्षवयाः खामी, सह नॄणां शतैस्त्रिभिः ॥ कृताष्टमतपाः सर्व - विरतिं प्रत्यपद्यत ॥ २८५ ॥ [ युग्मम् ] | लेभे मनःपर्ययाद्धं, तुर्यज्ञानं जिनस्तदा ॥ भुवि भारुण्डपक्षीवा - ऽप्रमत्तो विजहार च ॥ २८६ ॥ वासवा अपि शक्राद्याः, कृतखामित्रतोत्सवाः ॥ गत्वा नन्दीश्वरे कृत्वा - ऽष्टाहिकां खाश्रयं ययुः ॥ २८७ ॥ अन्यदा नगराभ्यर्ण| देशस्थं तापसाश्रमम् ॥ विभुर्जगाम विहरन्, मार्त्तण्डवास्तपर्वतम् ॥ २८८ ॥ ततोऽवटतटस्थस्य, वटस्य निकटे निशि ॥ तस्थौ प्रतिमया खामी, नासाग्रन्यस्तलोचनः ॥ २८९ ॥
इतश्च सोऽसुरो मेघ-मालिनामाऽवधेर्निजम् ॥ ज्ञात्वा प्राग्भववृत्तान्तं स्मृत्वा तद्वैरकारणम् ॥ २९० ॥ क्रोधेन प्रज्वलन्नन्त - वियोगीव मनोभुवा ॥ पार्श्वनाथमुपद्रोतुं तं प्रदेशमुपाययौ ॥ २९९ ॥ [ युग्मम् ] विचक्रे चाङ्कुशाका - र-नखरान्नखरायुधान् ॥ घोररूपधरान्पुच्छाच्छोटकम्पितभूधरान् ॥ २९२ ॥ आप्ते तैर्भीतिमप्राप्ते, भीषणेभ्योऽपि भीषणान् ॥ विदधे सोऽसुरः शैल - प्रायकायान्मतङ्गजान् ॥ २९३ ॥ तैरप्यचकिते नाथे, स्फारफूत्कारकारिणः ॥
१ सिंहान् ॥
त्रयोविंशमध्ययनम्. पार्श्वनाथ
चरित्रलेशः २८१-२९३