________________
त्रयोविंशमध्ययनम्.
(२३) |पाश्वनाथ
चरित्रलेशः ६.१८२-१९५
उत्तराध्ययन * शक्रेण विहिता-मङ्गुष्ठे नित्यमापिबन् ॥ ववृधे स जगन्नाथो, जगत्पाथोऽधिचन्द्रमाः ॥ १८२ ॥ [युग्मम् ] ॥४४॥ क्रमाच यौवनं प्राप्तः, कामिनीजनकार्मणम् ॥ नवहस्तप्रमाणाङ्गः, प्रभुः प्रामुमुदजगत् ॥१८३॥ अन्येधुरश्वसेनो-
-नाथमास्थानसंस्थितम् ॥ द्वाःस्थेनावेदितः कोऽपि, पुमानत्वैवमब्रवीत् ॥ १८४ ॥ खामिनिहास्ति भरते, कुशस्थलपुरं पुरम् ॥ राजा प्रसेनजि-त्तत्र, विद्यते हृद्यकीर्तिभूः ॥ १८५ ॥ तस्य प्रभावतीसंज्ञा, सुतास्ति नवयौवना ॥ जगतां सारमुचित्य, रचितेव विरचिना ॥ १८६॥ याति दास्यं तदास्यस्य, शशी तन्नेत्रयोद॒गः ॥ केकी तत्केशपाशस्य, तद्वाक्यस्य सुधारसः ! ॥ १८७॥ आदर्शो दर्शनीयत्वं, नाचते तत्कपोलयोः ॥ धुरां तदधरस्थापि, न धत्ते
हेमकन्दलः !॥ १८८ ॥ कुण्ठो वैकुण्ठकम्बुस्त-त्कण्ठसौन्दर्यशिक्षणे ॥ स्वर्णकुम्भोऽपि नो दक्ष-स्तद्वक्षोजरमाग्रहे ! INI॥ १८९ ॥ नालमालिंगितुं पद्म-नालं तदोलताश्रियम् ॥ न तत्पाणिच्छविलवं, लभन्ते पल्लवा अपि !॥ १९ ॥
तन्मध्यलीलामध्येतुं, बालिशः कुलिशोऽपि हि ॥ न तन्नाभिसनाभित्व-मावतः शिक्षितुं क्षमः ! ॥ १९१ ॥ तदारोहतुलारोहे, न शक्ता सैकतस्थली ॥ रम्भास्तम्भोऽश्नुते स्तम्भ, तदूरुसुषमार्जने !॥१९२॥ नैणिजंघापि तजंघा-श्री संघातनसोद्यमा॥ नारविन्दानि विन्दन्ति, पद्मा तत्पादपद्मयोः!॥१९३॥ कलां नाञ्चति तत्काय-कान्तेः काञ्चन काञ्चनम् ॥ तल्लावण्यगुणं वीक्ष्या-ऽप्सरसः सरसा न हि !॥ १९४॥ तां वीक्ष्य तादृशीं योग्य-जामातृप्राप्तये पिता ॥ बहूनन्वेषयामास, कुमारान्नाप तं पुनः ॥ १९५॥ सा सखीभिः सहान्येद्यु-र्गतोद्यानं प्रभावती ॥ गीतं स्फीतं
%ER-ENCOLOROSAROACC
॥४४८॥
456