________________
१२
किन्नरीभि - गीयमानमदोऽशृणोत् ॥ १९६ ॥ सुतोऽश्वसेनभूनेतुः, श्रीपार्थो जयताच्चिरम् ॥ रूपलावण्यतेजोभि - र्निर्ज - यन्निर्जरानपि ! ॥ १९७ ॥ तदाकयभवत्पार्थे, सानुरागा प्रभावती ॥ क्रीडां व्रीडां च संत्यज्य, तद्गीतमशृणो न्मुहुः ॥ १९८ ॥ ततोऽनुरक्ता सा पार्श्वे, वयस्याभिरलक्ष्यत ॥ रागो रागिषु न छन्न- स्तिष्ठत्यम्भसि तैलवत् ॥ १९९ ॥ चिरं साऽपश्यदुत्पश्या, किन्नरीषु गतासु खम् ॥ सखीभिश्च गृहं नीता, क्वापि नाधिगता सुखम् ॥ २०० ॥ स्मरापस्मारविवशा, न हि किञ्चिद्विवेद सा ॥ दध्यौ च पार्श्वमेवान्तः, परब्रह्मेव योगिनी ॥ २०९ ॥ ज्ञात्वा पार्श्वेऽनुरक्तां तां पितरौ तत्सखीमुखात् ॥ मुमुदाते भृशं स्थाने, रक्तेयमिति वादिनौ ॥ २०२ ॥ इत्यूचतुश्च प्रेष्यैना - मधिपार्श्व स्वयंवराम् ॥ द्रुतमानन्दयिष्यावो, नन्दनां विरहार्दिताम् ॥ २०३ ॥ तन्निशम्य चरैर्नैक - देशाधीशो महाबलः ॥ इत्यूचेऽन्तः सभं राजा, यवनो यवनोपमः ॥ २०४ ॥ कथं पार्श्वाय हित्वा मां सुतां दाता प्रसेनजित् ? ॥ प्रसह्यापि ग्रहीष्ये तां, स्वयं दास्यति चेन्न मे ॥ २०५ ॥ इत्युदीर्याशु पवन - जवनो यवनो नृपः ॥ एत्यारुणत्पुरं विष्वग्, बलैः प्राज्यैः कुशस्थलम् ॥ २०६ ॥ प्रवेशनिर्गमौ तत्रा -भूतां कस्यापि नो तदा ॥ रोलम्बस्येव रजनीमुखमुद्रितनीरजे ॥ २०७ ॥ पुरुषोत्तमनामाहं, प्रहितो भूभूजा ततः ॥ वार्त्ता वक्तुमिमां रात्रौ निर्गयात्रागमं प्रभो ! ॥ २०८ ॥ परंतपातः परं तु यत्कर्त्तव्यं कुरुष्व तत् ॥ शरणं ते प्रपन्नोऽस्ति तत्रस्थोऽपि प्रसेनजित् ॥ २०९ ॥ तन्निशम्याश्वसेनोर्थी - कान्तः कोपारुणेक्षणः ॥ भम्भामवीवदद्यात्रां, चिकीर्षुर्यवनं प्रति ॥ २९० ॥ तं भम्भाध्वनि
त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः
| १९६-२१०