________________
मध्ययनम. पाश्वनाथचरित्रलेशः १६७-१८१
सुधालिप्साः, प्रायः सर्वगृहा अपि ! ॥ १६७ ॥ अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा ॥ कुत्रिकापणराजीव, रेजे यत्रापणावली ॥ १६८॥ प्रत्यक्षां वीक्ष्य यलक्ष्मी, दक्षा विश्वातिशायिनीम् ॥ अशङ्कन्ताश्माम्बुशेषी, रोहणाद्रिपयो- निधी ॥ १६९ ॥ अश्वसेनाभिधो विष्वकू-सेनसन्निभविक्रमः ॥ तत्राभूत्पार्थिवः पृथ्वी-वास्तव्य इव वासवः १७०॥ गुणैरवामा वामाह्वा, शीलादिगुणशालिनी ॥ तस्यासीद्वल्लभा राज्ञः, खप्राणेभ्योऽपि वलभा ॥ १७१॥ सुवर्णबाहुजीवोऽथ, च्युत्वा प्राणतकल्पतः ॥ कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ॥ १७२ ॥ तदा सा सुमुखी कुम्भिप्रमुखान् विशतो मुखे ॥ चतुर्दश महास्वप्नान् , ददर्श शयिता सुखम् ॥ १७३॥ शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थममुं जगुः ॥ खप्नैरेभिः सुतो भावी, तव देवि ! जगत्पतिः ॥१७४ ॥ ततः प्रमुदिता वामा-देवी गर्भ दधौ सुखम्॥ | काले च सुपुवे पुत्रं, नीलद्युतिमहिध्वजम् ॥ १७५ ॥ विज्ञाय विष्टरास्थैर्या-त्प्रभोर्जन्मागतास्तदा ॥ षट्पञ्चाशदिक्कुमार्यः, सूतिकर्माणि चक्रिरे ॥ १७६ ॥ ज्ञात्वा जन्मावधस्तस्य, शकाद्या वासवा अपि ॥ जन्माभिषेककल्याणं, सुमेरौ विधिवद्यधुः ॥ १७७॥ पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि ॥ कारामोक्षादिकं चक्रे, सूनोर्जन्ममहोत्सवम् ॥ १७८ ॥ गर्भस्थेऽस्मिन्कृष्णरात्रा-वपि माता स्वपार्थतः ॥ ददर्श सपं सर्पन्तं, द्रुतं भर्तरुवाच च ॥ १७९॥ प्रभावोऽयं हि गर्भस्से-त्यूचे भूपोऽपि तां तदा ॥ तच स्मृत्वा नृपः सूनोः, पार्थ इत्यभिधां व्यधात् ॥ १८०॥ लाल्यमानोऽथ धात्रीभि-रादिष्टाभिर्बिडोजसा ॥ शिशुभूतैः समं देवैः, क्रीडन् क्रीडागृहं श्रियः ॥ १८१॥ सुधां
COACRॐॐ