________________
१२
स खेचरोऽनुचरव-त्वर्णबाहुमुपाचरत् ॥ १३८ ॥ खर्णबाहुर्महाबाहु - स्तत्रस्थः प्राज्यपुण्यतः ॥ श्रेणिद्वितयसाम्राज्य - माससाद दुरासदम् ॥ १३९ ॥ विद्याधरकनीस्तत्र, भूयसीरुदुवाह च ॥ पद्माद्याभिः समं ताभिः खपुरेऽगाच सोऽन्यदा ॥ १४० ॥ जातचक्रादिरत्नश्च षट्खण्डं क्षितिमण्डलम् ॥ सुवर्णबाहुभूपालः, साधयित्वान्वशाच्चिरम् ॥ १४१ ॥ प्रासादोपरि सोऽन्येद्युः क्रीडन्नन्तःपुरीवृतः ॥ सविस्मयोऽम्बरेऽपश्य-गमागमपरान्सुरान् ॥ १४२ ॥ ततो ज्ञात्वा जगन्नाथ - तीर्थ नाथसमागमम् ॥ गत्वा नत्वा जिनं मोहा - पहां शुश्राव देशनाम् ॥ १४३ ॥ सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् || प्रबोध्य भव्यान्सार्वोऽपि, विजहार ततोऽन्यतः ॥ १४४ ॥ स्मरन् जिनान्तिके दृष्टान्सुरांची स चान्यदा ॥ दृष्टा मयेदृशाः पूर्व-मपि क्वापीति भावयन् ॥ १४५ ॥ जातिस्मरणमासाद्य, ददर्श प्राग्भवान्निजान् ॥ वैराग्यं चाभवद्वीजं, महानन्दमहीरुहः ॥ १४६ ॥ [ युग्मम् ] दीक्षां जिघृक्षुः क्ष्मापोऽथ, न्यधाद्राज्यं निजेऽङ्गजे ॥ जगन्नाथजिनस्तत्र, पुनरप्यागमत्तदा ॥ १४७ ॥ सुवर्णवाहुः प्रात्राजी - ततस्तस्यार्हतोऽन्तिकें ॥ स च | क्रमेण गीतार्थ- स्तपस्तेपे सुदुस्तपम् ॥ १४८ ॥ जिनसेवादिभिः स्थानैः, तीर्थकृत्कर्म चार्जयत् ॥ विजहार च भूपीठेऽप्रतिबद्धः समीरवत् ॥ १४९ ॥ स चान्यदा क्षीरवणा-टव्यां क्षीरमहागिरौ ॥ भानोरभिमुखस्तस्थौ, कायोत्सर्गेण शुद्धधीः ॥ १५० ॥ कुरङ्गकोऽपि नरको - वृत्तस्तत्रैव भूधरे ॥ सिंहोऽजनिष्ट दैवाच्च तत्रागच्छत्परिभ्रमन् ॥ १५१ ॥ मुनीन्द्रं वीक्ष्य तं क्रोधा - ध्मातः प्राग्भववैरतः ॥ दधाव पावकाकार-स्फाराक्षो राक्षसोपमः ॥ १५२ ॥ तमापतन्तं
त्रयोविंशमध्ययनम्. पार्श्वनाथ
चरित्रलेशः १३८-१५२