________________
उत्तराध्ययन ॥४४६॥
नचेत्क मे ? ॥ १२३ ॥ इत्यूचे च नृपो ब्रूहि, भद्रे कुलपतिः क्व सः ॥ तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्ग इव भास्क- त्रयोविंशरम् ॥ १२४ ॥ सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् ॥ किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुना
मध्ययनम्श्रमम् ॥ १२५ ॥ तदा तत्राययौ राज्ञः, सैन्यमश्वपदानुगम् ॥ सुवर्णबाहुरेवाय-मिति ते दध्यतस्ततः ॥ १२६ ॥ (२३)
पाश्वनाथकुलपत्यागमकालं, शङ्कमानाऽथ तत्सखी॥ पद्मां सद्माऽनयद्भप-दर्शनासक्तदर्शनाम् ॥ १२७ ॥ वाती सुवर्णबाहोस्तां,
चरित्रलेशः गालवस्यैयुषो गृहम् ॥ रत्नावल्याश्च सानन्दा-नन्दाख्या तत्सखी जगौ ॥ १२८ ॥ ततो रत्नावलीपद्मा-नन्दाभिः १२४-१३७ सह गालवः॥ ययावुपनृपं हृष्टः, सोऽपि तं बहमानयत् ॥१२९॥ अथोचेगालवो राजन् !, पद्मां मे जामिजामिमाम् ॥ पाणौ गृहाण प्रोक्ता हि, भार्याऽसौ ज्ञानिना तव ॥ १३० ॥ तच्छ्रुत्वा दृष्टसुखप्न-इवोचैर्मुदितो नृपः ॥ गान्धर्वेण 8 |विवाहेन, तामुपायंस्त रागिणीम् ॥ १३१ ॥ वैमात्रेयोऽथ पद्माया-स्तदा पद्मोत्तरातयः ॥ विमानश्छादयन् व्योम, तत्रागात्खेचरेश्वरः ॥ १३२ ॥ रत्नावल्या ज्ञापितस्तं, नृपं नत्वैवमब्रवीत् ॥ देवायातोऽस्मि सेवायै, ज्ञात्वोदन्तममुं तव ॥ १३३ ॥ प्रभो ! पुनीहि त्वं स्वीय-पादपद्मसमागमात् ॥ वैताढ्यपर्वते रत्न-पुरं नाम पुरं मम ॥ १३४ ॥ तत्प्रपद्यापृच्छय रत्ना-वली कुलपति तथा॥ भूमान् विमानमारोह-त्तस्याशु सपरिच्छदः ॥ १३५ ॥ नत्वा मातुल
॥४४६॥ मम्बां च, सस्नेहं तदनुज्ञया ॥ पद्माप्यश्रुजलक्लिन-भूतला पतिमन्वगात् ॥१३६ ॥ ततः पद्मोत्तरः पद्मा-संयुतं तं धराधवम् ॥ सद्यो वैताढ्यशिखरि-शेखरे स्वपुरेऽनयत् ॥ १३७ ॥ दत्वा च रत्नप्रासादं, दिव्यं स्नानाशनादिना ॥
SUAUGAGASASHISAIG