SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४४५॥ १५ १८ २१ २४ ग्रैवेयकात्ततः ॥ चतुर्द्दशमहास्वप्न - सूचितोऽभूत्सुतस्तयोः ॥ ९५ ॥ सुवर्णवाहुरित्याह्वां व्यधात्तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, जगन्नेत्रसुधाञ्जनम् ॥ ९६ ॥ धात्रिभिरिव धात्रीशै - स्तत्सौभाग्यवशीकृतैः ॥ अङ्कादङ्कं नीयमानः, स व्यतीयाय शैशवम् ॥ ९७ ॥ सुगमाः प्राग्भवाभ्यासा - दादाय सकलाः कलाः ॥ यौवनं प्राप ललना-नेत्रालिनलिनीवनम् ॥ ९८ ॥ राज्ये निधाय तं राजा, प्रवत्राजान्यदा सुधीः ॥ सदयं स्वर्णबाहुश्चा -ऽभुक्त बालामिव क्षमाम् ॥ ९९ ॥ सोऽथ वाहयितुं वाहान्, वाहकेलीं गतोऽन्यदा ॥ अनायि हृत्वाऽरण्यानीं, वक्रशिक्षितवाजिना ॥ १०० ॥ तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्स्वयं हयः ॥ तत्र तं स्त्रपयित्वाऽथ, पार्थिवोऽपाययत्पयः ॥ १०१ ॥ स्वयं स्नात्वा पयः पीत्वा, तीरे विश्रम्य च क्षणम् ॥ ततः पुरो व्रजन् राजा -ऽपश्यदेकं तपोवनम् ॥ १०२ ॥ तत्र प्रविशतो राज्ञो ऽस्फुरद्दक्षिणमीक्षणम् ॥ श्रेयः श्रेयोऽथ मे भावी - त्यन्तर्भूपोऽप्यचिन्तयत् ॥ १०३ ॥ पुरो त्रजंश्च सोऽपश्य-तत्रैकां मुनिकन्यकाम् ॥ सिञ्चन्तीं शाखिनः सख्या -ऽनुगतां गजजिगतिम् ॥ १०४ ॥ द्रुमान्तरस्थो निध्यायं स्तामध्यायत्ततो नृपः ॥ सर्वायासादिमां नूनं, विज्ञानी विदधे विधिः ॥ १०५ ॥ विकाराणामुपाध्यायो, न ध्यायोऽप्सरसामपि ॥ क्वाऽयं रूपगुणोऽमुष्याः, क्केदं कर्मेतरोचितम् ! ॥ १०६ ॥ नृदेवे चिन्तयत्येवं तच्छासा| मोदमोहितः ॥ आस्ये तस्याः पपाताब्ज-भ्रमेण भ्रमरो भ्रमन् ! ॥ १०७ ॥ भृङ्गान्मां रक्ष रक्षास्मा - दित्यूचे सा सखीं तदा ॥ विना सुवर्णबाहुं त्वां कोऽन्यः पातीति साप्यवक् ॥ १०८ ॥ सुवर्णवाहौ पाति क्ष्मा - मुपद्रवति त्रयोविंशमध्ययनम्. (२३) पार्श्वनाथचरित्रलेशः ९५-१०८ ॥४४५ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy