SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १२ मूलम् - तीसे सो वयणं सोचा, संजयाइ सुभासिअं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४६ ॥ व्याख्या -- अंकुसेणेत्यादि - अङ्कुशेन यथा नागो हस्ती मार्गे इतिशेषः, धर्मे चारित्रधर्मे संप्रतिपातितः स्थितः तद्वचसैवेति गम्यते । अत्रचायं वृद्धवादः "नूपुरपण्डिताख्याने रुष्टेन राज्ञा देवीमिण्ठवारणा मारणार्थ गिरिशृङ्गमारोपिताः, तत्र नृपादिष्टमिण्ठनुन्नेन दन्तिना पातार्थ क्रमात्रयः क्रमा आकाशे कृताः, ततः किमयं चिन्तामणिरिव दुरापो द्विपचूडामणिर्मुधा मार्यत इत्यार्यलोकैर्विज्ञतेन राज्ञा हस्तिरक्षणायोक्तो हस्तिपको राज्ञ्या आत्मनश्चाभयमभ्यर्थ्य तं गजं शनैः शनैः शैलशिखरादुदतारयदिति । यथा चायं तावतीं भुवं प्राप्तोऽपि द्विपोऽङ्कुशवशात्पथि संस्थितः, एवमयमप्युत्पन्नविश्रोतसिको राजीमतीवाक्येनाहितप्रवृत्तिनिवर्त्तकतयाङ्कुशदेश्येन धर्मे स्थितः ॥ ४६ ॥ मूलम् - मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । सामण्णं निश्चलं फासे, जावज्जीवं दढवओ ॥४७॥ 'व्याख्या -- ' फासेत्ति' अस्प्राक्षीदिति सूत्रद्वयार्थः ॥ ४७ ॥ द्वयोरप्युत्तरवक्तव्यतामाह- मूलम् — उग्गं तवं चरित्ता णं, जाया दुण्णिवि केवली । सर्व्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ४८ व्याख्या -- ' दोष्णिवित्ति' द्वावपि रथनेमिराजीमत्यौ । अनयोश्च चत्वारि वर्षशतानि गार्हस्थ्ये, वर्षमेकं छानस्थ्ये, पञ्च वर्षशतानि केवलित्वे, एकाधिकनववर्षशतानि सर्वायुरभूदिति सूत्रार्थः ॥ ४८ ॥ अथाध्ययनार्थमुपसंहरन्नुपदेशमाहमूलम् — एवं करिंति संबुद्धा, पंडिआ पविअक्खणा । विणिअहंति भोगेसु, जहा से पुरिसुत्तमुत्ति बेमि ४९ द्वाविंशमध्ययनम्. गा ४६-४९
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy