SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४४०॥ मूलम् अहं च भोगरायस्स, तं चऽसि अंधगवह्निणो। मा कुले गंधणा होमो, संजमं निहुओ चर ४३८ द्वाविंशम ध्ययनम्व्याख्या-अहं चः पूर्ती भोजराजयोग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जात इति शेषः । अतो मा कुले | (२२) गंधणत्ति' गन्धनानां होमोत्ति' भविष्यावस्तचेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मंत्राकृष्टा ज्वल- गा४३-४५ दनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः। तर्हि किं कार्यमित्याह-संयमं निभृतः स्थिरश्चर सेवख ॥४३॥ मूलम्-जइतं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्धव हडो, अहिअप्पा भविस्ससि ४४ व्याख्या--यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु ताखिति गम्यते । ततः। किमित्याह-वाताविद्धो वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो घरढमूलतया यतो यतो वातो वाति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं स्त्रियं प्रति स्पृहां टू कुर्वस्त्वमपीति ॥४४॥ मूलम्-गोवालोभंडवालो वा, जहा तद्दवणिस्सरो। एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि४५ व्याख्या--गोपालो यः परस्य गाः पालयति, भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स ॥४४॥ यथा तव्यस्य गवादेरनीश्वरोऽप्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्साभावादिति सूत्रपोडशकार्थः ॥ ४५ ॥ एवं तयोक्ते रथनेमिः किं चकारेत्याह
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy