SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १२ भग्नोद्योगपराजितस्तं । असम्भ्रान्ता नाऽयं बलादकार्य कर्त्तेत्याशयादत्रस्ता । आत्मानं समवारीदाच्छादयच्चीवरैरिति शेषः ॥ ३९ ॥ मूलम् - अह सा रायवरकन्ना, सुट्टिआ निअमवए । जाई कुलं च सीलं च, रक्खमाणी तयं वए ॥४०॥ व्याख्या -- 'निअमन्वएत्ति' नियमे इन्द्रियनियमने, व्रते दीक्षायां 'वएत्ति' अवादीत् ॥ ४० ॥ मूलम् — जइसि रूवेण वेसमणो, ललिएणं नलकूबरो । तहावि ते न इच्छामि, जइसि सक्खं पुरंदरो ४१ व्याख्या--‘ललिएणंति' ललितेन सविलासचेष्टितेन नलकूबरो देवविशेषः, 'ते इति' त्वां 'जइसित्ति' यद्यसि साक्षात्पुरन्दरः ॥ ४१ ॥ अन्यच -- मूलम् - धीरत्थु ते जसो कामी, जो तं जीविअकारणा । वंतं इच्छसि आवेडं, सेअं ते मरणं भवे ! ॥४२॥ व्याख्या -- धिगस्तु ते तव यशो महा कुलसम्भवोद्भवं हे कामिन्!, यद्वा धिगस्तु ते इति त्वां हे अयशस्कामिन् ! अकीर्त्यभिलापिन् !, यस्त्वं जीवितकारणादसंयमजीवितार्थ वान्तमपि प्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्तुं ! इत्यतः श्रेयः कल्याणं ते मरणं भवेत् ! न तु वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि - "विज्ञाय वस्तु निन्द्यं त्यक्त्वा गृह्णन्ति किं क्वचित्पुरुषाः ? । वान्तं पुनरपि भुंक्ते, न हि सर्व सारमेयोपि" इति ॥ ४२ ॥ द्वाविंशमध्ययनम् गा ४०-४२
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy