SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ४४१॥ व्याख्या-एवं कुर्वन्ति सम्बुद्धाः पण्डिताःप्रविचक्षणाः, विनिवर्तन्ते कथञ्चिद्विश्रोतसिकोत्पत्तावपि विशेषेण तन्निरोधलक्षणेन निवर्तन्ते भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥४९॥ इति ब्रवीमीति प्राग्वत्॥इतश्च ॥ भगवान्नेमिनाथोऽपि, विहरन्नवनीतले ॥ पद्मानिव सहस्रांशु-भव्यसत्वानबूबुधत् ॥ ४२७॥ दशचापोच्छ्यः शङ्क-लक्ष्माम्भोदप्रभः प्रभुः॥ दिशो दशाऽऽदिशन् धर्म, दशभेदमपावयत् ॥२८ ॥ अष्टादशसहस्राणि, साधूनां सांधुकर्मणाम् ॥ चत्वारिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ २९ ॥ एकोनसप्ततिसह-स्राग्रं लक्षमुपासकाः॥ लक्षत्रयं च पत्रिंश-त्सहस्राढ्यमुपासिकाः ॥ ३०॥ चतुःपंचाशदिनोनां, सप्तवर्षशतीं विभोः ॥ आकेवलाद्विहरतः, संघोऽभूदिति संभवः ॥ ३१ ॥ [त्रिभिर्विशेषकम् ] पर्यन्ते चोजयन्ताद्रौ, प्रपेदेऽनशनंप्रभुः ॥ षत्रिंदशधिकैः सार्द्ध, साधूनां पञ्चभिः शतः ॥ ३२ ॥ तैः साधुभिश्च सह वर्षसहस्रमान-मायुः प्रपूर्य जिनभानुररिष्टनेमिः ॥ मासेन निततिसुखानि ततः प्रपेदे, चक्रे तदा च महिमा सकलैः सुरेशैः ॥ ४३३ ॥ इति श्रीअरिष्टनेमिजिनचरितम् ॥ १ साधुधर्मणाम् । इति 'घ' पुस्तके ॥ २ सत्तमः । इति 'घ' पुस्तके। द्वाविंशमध्ययनम्. (२२) श्रीनेमिनाथचरित्रोपसंहारः ४२७-४३३ ॥४४॥ 2 इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वाविंशमध्ययनं सम्पूर्णम् ॥ २२॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy