SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ३ ६ १२ उ० ७४ मूलम् - सा पवइआ संती, पवावेसी तहिं बहुं । सयणं परिअणं चेत्र, सीलवंता बहुस्सुआ ॥ ३२ ॥ व्याख्या - 'पद्यावेसित्ति' प्रव्राजयामासेति सूत्रत्रयार्थः ॥ ३२ ॥ तदुत्तरवक्तव्यतामाह 4 मूलम् - गिरिं च रेवयं जंती, वासेणोल्ला उअंतरा । वासंते अंध्यारम्मि, अंतो लयणस्स सा ठिआ ३३ व्याख्या - गिरिं च रैवतं यान्ती, खामिनं नन्तुमिति शेषः । वर्षेण वृष्ट्या 'उल्लत्ति' आर्द्रा क्लिन्नाम्बरा, अन्तराऽर्द्धमार्गे 'वासंतेत्ति' वर्षति मेघे इति गम्यं, अन्धकारे प्रकाशरहिते, लयनस्य गिरिगुहाया अन्तर्मध्ये, सा राजीमती स्थिता ॥ ३३ ॥ तत्र च - मूलम् - चीवराई विसारंती, जहाजायत्ति पासिआ । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अ तीईवि ॥३४॥ व्याख्या - चीवराणि विसारयन्ती विस्तारयन्ती सा यथाजाता अनावृताङ्गतया जन्मावस्थोपमा जज्ञे इति इत्येवंरूपां तां 'पासिअत्ति' दृष्ट्वा रथनेमिर्भग्नचित्तः संयमम्प्रत्यभूत् । स हि तामप्रतिरूपरूपां निरूपयाभिरूपरूपोऽपि स्मरपरवशोऽजनि ! पश्चादृष्टश्च तथा राजीमत्या, अपिः पुनरर्थः, प्रथमप्रविटैर्हि नान्धकारे किञ्चिद् दृश्यते, अन्यथा हि वृष्टिसम्भ्रमादन्यान्याश्रयान् गतासु शेषसंयतासु तत्रेयमेकाकिनी प्रविशेदपि नेति भावः ॥ ३४ ॥ मूलम् - भीआय सा तहिं दहु, एगंते संजयं तयं । वाहाहिं काउं संगोफं, वेवमाणी निसीअइ ॥ ३५ ॥ द्वाविंशम ध्ययनम् ३२-३५
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy