________________
**********
द्वाविंशमध्ययनम्. श्रीनेमिनाथचरित्रम् गा २२-२४
मूलम्--देवमणुस्सपरिवुडो, सीआरयणं तओ समारूढो।
निक्खमिअ बारयाओ, रेवययंमि हिओ भयवं ॥ २२ ॥ व्याख्या--'सीआरयणंति' शिबिकारत्नं सुरकृतमुत्तरकुरुसंज्ञं, निष्क्रम्य द्वारकातो द्वारकापुर्याः, रैवतके स्थितो भगवान् ॥ २२॥
मूलम्-उजाणं संपत्तो, ओइण्णो उत्तिमाओ सीआओ।
साहस्सीइ परिवुडो, अभिनिक्खमई उ चित्ताहि ॥ २३ ॥ __ व्याख्या-तत्रापि गिरौ उद्यानं सहस्राम्रवणसंज्ञं सम्प्राप्तस्तत्र चावतीर्णः, 'सीआओत्ति' शिविकातः 'साहस्सीएत्ति' पुरुषाणामितिशेषः, परिवृतः। अथ वर्षशतत्रयं गार्हस्थ्ये स्थित्वा निष्क्रामति । तुः पृत्तौ, 'चित्ताहिति' चित्रानक्षत्रे, अस्य प्रभोः पञ्चखपि कल्याणकेषु तस्यैव भावात् ॥ २३ ॥ कथमित्याहमूलम्-अह सो सुगंधगंधिए, तुरिअं मउअकुंचिए । सयमेव लुचई केसे, पंचमुट्ठीहिं समाहिओ २४ | ___ व्याख्या-सुगन्धगन्धिकान्वभावत एव सुरभिगन्धीन् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् खयमेव लुञ्चति द केशान् , पञ्चमुष्टिभिः समाहितः सर्वसावद्ययोगत्यागेन समाधिमान्॥२४॥एवमुपात्तदीक्षे मनःपर्यायज्ञानंप्राप्ते च जिने
*
SSROCEAERARMA
****