________________
उत्तराध्ययन ॥४३७॥
१५
१८
२१
२४
मूलम् - वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं । इच्छिअमणोरहं तुरिअं पावेसू तं दमीसरा !॥२५॥ व्याख्या–वासुदेवश्चशब्दात् बलभद्रसमुद्रविजयादयश्च 'णंति' एनं नेमिजिनं भणति लुप्तकेशं जितेन्द्रियं, इप्सित| मनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं हेदमीश्वर ! जितेन्द्रियशिरोमणे ! ॥ २५ ॥
मूलम् - नाणेणं दंसणेणं च चरित्तेण तवेण य । खंतीए मुत्तीए, वड्डमाणो भवाहि अ ॥ २६ ॥ मूलम् — एवं ते राम केसवा, दसारा य बहुजणा । अरिट्ठनेमिं वंदित्ता, अइगया बारगाउरिं ॥ २७ ॥ व्याख्या- ' वंदितत्ति' वन्दित्वा स्तुत्वा नत्वा च, अतिगताः प्रविष्टाः ॥ २६ ॥ २७ ॥ तदा च त्रुटिततत्सङ्गमाशा राजीमती कीदृशी बभूवेत्याह
मूलम् - सोऊण रायवरकन्ना, पवज्जं सा जिणस्स उ । नीहासा य निराणंदा, सोगेण उ समुच्छया॥२८॥ व्याख्या -- ' नीहासत्ति' निर्हासा हास्यरहिता निरानन्दा च शोकेन समवस्तृता आच्छादिता ॥ २८ ॥ मूलम् — राईमई विचिंते, धिरत्थु ! मम जीविअं । जाहं तेण परिच्चत्ता, सेअं पवइउं मम ॥ २९ ॥
व्याख्या- 'जाहंति' यद्यहं तेनाऽरिष्टनेमिना परित्यक्ता तर्हि श्रेयोऽतिप्रशस्यं प्रत्रजितुं मम यथान्यजन्मन्यपि नेदृशं दुःखं स्यात्, यथा च सत्यः पत्यनुयायिन्यो भवन्तीति वाक्यं सत्यापितं भवतीति सूत्रनवकार्थः ॥ २९ ॥ इतश्च
द्वाविंशम
ध्ययनम् (२२)
गा २५-२९
॥४३७॥