________________
॥ ३८१ ॥ मुदितेषा
कभरातुरा ॥ राजीमतीलामी प्रचक्रमे ॥ ३
545
Wom
अयं हि भगवान् दीक्षा-मादायोत्पन्नकेवलः ॥ चिरं मोदयिता विश्व-त्रयं तीर्थ प्रवर्तयन् ! ॥ ३८१॥ मुदितेषु द्वाविंशमतदाकर्ण्य, समुद्रविजयादिषु ॥ गृहं गत्वाऽऽन्दिकं दानं, दातुं खामी प्रचक्रमे ॥ ३८२ ॥
ध्ययनम् ___ इतश्च वलितं वीक्ष्य, नेमि शोकभरातुरा ॥राजीमती क्षिती बज्रा-हतेवाचेतनाऽपतत् ॥३८३॥ वयस्याः विहितैः
नश्रीनेमिनाशीतो-पचारैश्चाप्सचेतना ॥ दुःखोद्गारोपमांश्चक्रे, विलापानिति दुःश्रवान् !॥३८४॥ दोपं विनापि रक्तां मां, त्यक्त्वा
थचरित्रम्
३८१-३९५ नाथ ! कुतोऽगमः ॥ त्वादशां हि विशां भक्त-जनोपेक्षा न युज्यते ! ॥ ३८५ ॥ सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् ॥ जहात्यङ्कमृगं नेन्दु-नचाब्धिर्वडवानलम् ! ॥ ३८६ ॥ सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगत्प्रभो! ॥ तदा किमर्थ खीकृत्य, विवाहं मां व्यडम्बयः ॥ ३८७ ॥ यद्वा ममैवासी दोपो-ऽरज्यं यत्त्वयि दुर्लभे॥ काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे ! ॥ ३८८ ॥ रूपं कला कुशलता, लावण्यं यौवनं कुलम् ॥ त्वया स्वीकृत्य मुक्तायाः, सर्वे में विफलं विभो ! ॥ ३८९ ॥ निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोचकैः ॥ ज्वलतीव वपुः कान्त !, त्वद्वियोगव्यथाभरैः ! ॥ ३९ ॥ पशुष्वासीः कृपालुस्त्वं, यथा मयि तथा भव ॥ त्वादृशा हि महात्मानः, पंक्तिभेदं न कुर्वते ! ॥ ३९१ ॥ दृशा गिरा च मां रक्तां, विभो ! सम्भावयैकशः॥ को हि वेत्ति विनाऽऽखादं, मधुरं कटु वा फलम् ? ॥ ३९२ ॥ यद्वा सिद्धिवधूत्कस्य, तव सापि पुलोमजा ॥ मनो हरति नो तर्हि, क्वाहं मानुषकीटिका ? ॥ ३९३ ॥ इत्युच्चैर्विलपन्तीं तां, कनी सख्योऽवदन्नदः ॥ मा रोदः सखि ! यात्वेष, नीरसो निठु-I राग्रणीः ॥ ३९४ ॥ भूयांसोऽन्येपि विद्यन्ते, हृया यदुकुमारकाः॥ खानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ॥३९५॥