SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ द्वाविंशम ध्ययनम् श्रीनेमिना थचरित्रम् ३४४-३५७ नन्दनाः क्व विनाङ्गनाम् ? ॥ अस्त्रीकस्यातिथिर्भिक्षो-रिवार्थमपि नाश्नुते ! ॥ ३४४ ॥ यामिन्यपि कथं याति, यूनो युवतिमन्तरा ? ॥ चक्रवाकी विना पश्य, चक्रस्यान्दायते निशा ! ॥३४५॥ विना योग्यवधूयोगं, सकलोपिन शोभते ॥ पश्य श्यामावियुक्तस्य, कान्तिः का नाम शीतगोः! ॥ ३४६ ॥ पाणौ कृत्य ततः काञ्चि-त्कन्यां गुणगणा-| म्बुधे ! ॥ श्रीदाशार्ह ! दशार्दादि-यदूनां पूरयेहितम् ॥ ३४७ ॥ आंजन्मस्वैरिणा षण्ढे-नेव धूर्भवता वधूः ॥ निर्वोढुं दुश्शका शङ्के, नोद्वाहं कुरुषे ततः! ॥ ३४८॥ तदप्ययुक्तं निर्वोढा, तामप्यस्मानिवाच्युतः ॥ शेषस्याशेषभूधर्तु-नहि |भाराय वल्लरी ! ॥ ३४९ ॥ निर्वाणाप्राप्तिभित्यापि, मा भूर्भोगपराङ्मुखः ॥ भुक्तभोगा अपि जिनाः, सिद्धा हि वृषभादयः!॥ ३५० ॥ दद्याः प्रतिवचो मा वा, धाष्टान्मूकस्य ते परम् ॥ नास्मत्तो भविता मोक्षो, विवाहाङ्गीकृति विना !॥३५१॥ इति ताभिः प्रार्थ्यमान-मुपेत्साहन्तमादरात् ॥प्रार्थयन्त तमेवार्थ, रामकृष्णादयोऽपि हि ! ॥३५२॥ बन्धुभिर्बन्धुरैर्वाक्यैः, स निर्बन्धमितीरितः ॥ जिनोऽनुमेने वीवाह, भावि भावं विभावयन् ! ॥ ३५३॥ तमुदन्तं ततो गत्वा, वैकुण्ठोऽकुण्ठसम्मदः ॥ समुद्रविजयायाख्य-मुदमुन्मुद्रयन् पराम् ॥३५४॥ योग्यामस्य कुमारस्य, कन्यां वृणु महामते ! ॥ इत्थं समुद्रविजयः, प्रोचे तायध्वजं ततः ॥३५५॥ कनी तदाही दाशार्हः, सर्वतोऽन्वेषयंस्ततः॥ चिन्ताचान्तोऽन्यदा सत्य-भामयैवमभाष्यत ॥ ३५६ ॥ राजीवनयना राजी-मती सद्गुणराजिनी ॥ नेमेरास्ति जामि, जयन्तीजयिनी श्रिया!॥३५७ ॥ प्रिये ! साधु ममाहार्षी-श्चिन्तामिति वदंस्ततः॥ उग्रसेननरेन्द्रस्य, वेश्मो१ शण्वेन धूरिवाजन्म-खैरिणा भवता वधूः । इति “घ” पुस्तके ॥ ७३
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy