________________
उत्तराध्ययन
द्वाविंशम| ध्ययनम्
॥४३॥
१५
श्रीनेमिनाथचरित्रम् । ३५८-३६२
पेन्द्रः खयं ययौ ॥ ३५८ ॥ हृष्टः प्रेक्ष्य हृषीकेश-मभ्युत्थाय स पार्थिवः॥ दत्वासनमपव्याजं, व्याजहार कृताञ्जलिः ॥ ३५९ ॥ किमियानयमायासः, कृतोऽद्य स्वामिना स्वयम् ॥ नाहूतः किमहं प्रेष्य-प्रेषणेन खकिङ्करः ? ॥३६॥ इदं गृहमियं लक्ष्मी-रिदं वपुरियं सुता ॥ सर्व विद्धि खसान्नाथ !, येनार्थस्तन्निवेद्यताम् ॥ ३६१ ॥ ऊचे मुकुन्दः कुन्दाभ-रदाभाभासुराधरः॥ मद्भातुर्देहि नेमेस्त्वं, राजन् ! राजीमतीमिमाम् ॥ ३६२॥ इत्थं हरिणा याचितायां || राजीमत्यां धन्यंमन्यः प्रमोदभरमेदुर उग्रसेननृपो यदूचे तदाह सूत्रकृत्
मूलम्-अहाह जणओ तीसे, वासुदेवं महिड्डिअं। इहागच्छउ कुमारो, जासे कन्नं दलामहं ॥८॥ __ व्याख्या-अथ याचानन्तरमाह जनकस्तस्या राजीमत्याः 'जासेत्ति' सुब्व्यत्ययायेन तस्मै कन्यां ददामि विवाहविधिना उपढोकयाम्यहम् ॥८॥ इत्थं तेनोक्ते, कृते च द्वयोरपि कुलयोर्वर्धापने, आसन्ने च क्रोष्टुक्यादिष्टे विवाहलग्ने यदभूत्तदाह
मूलम्-सबोसहिहिं पहविओ, कयकोउअमंगलो । दिवजुअलपरिहिओ, भूसणेहिं विभूसिओ ॥९॥ हा व्याख्या-सर्वोषधयो जयाविजयर्द्धिवृद्धिप्रमुखास्ताभिः स्नपितोऽभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र ललाटमुशलस्पर्शनादीनि कौतुकानि, मङ्गलानि च दध्यक्षतादीनि । दिवेत्यादि-परिहितं दिव्यं युगलमिति देवदूष्ययुगलं येन स| तथा, सूत्रे व्यत्ययः प्राकृतत्वात् ॥९॥
AAAAAAA
॥४३३॥