SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ४३० ॥ १५ १८ २१ २४ नाम सः ॥ ८४ ॥ यशोमतीमंत्रिमुनि-युक्तः शङ्खमुनीश्वरः ॥ प्रान्ते प्रायं प्रपद्यागा - द्विमानमपराजितम् ॥ ८५ ॥ इतश्चात्रैव भरते, पुरे शौर्यपुरेऽभवत् ॥ ज्येष्ठ भ्राता दशार्हाणां, समुद्रविजयो नृपः ॥ ८६ ॥ शिवाभिधाऽभवत्तस्य, राज्ञी विश्वशिवङ्करा ॥ च्युत्वाऽपराजिताच्छङ्घ- जीवस्तत्कुक्षिमागमत् ॥ ८७ ॥ सुखसुप्ता तदा देवी, महास्वप्नांश्चतुदेश | वीक्ष्याधिकां रिष्टरत्न - नेमिं चाख्यन्महीभुजे ॥ ८८ ॥ पृष्टास्तदर्थं राज्ञाऽथ, तज्ज्ञाः प्रातरिदं जगुः ॥ चक्री वा धर्मचक्री वा, युष्माकं भविता सुतः ॥ ८९ ॥ पूर्णे कालेऽथ साऽसूत, राज्ञी विश्वोत्तमं सुतम् ॥दिकुमार्योऽभ्येत्य तस्य, सूतिकर्माणि चक्रिरे ॥ ९० ॥ तस्येन्द्रा निखिलाश्वकु - मेरौ त्रात्रमहोत्सवम् ॥ पार्थिवोऽपि मुदा चक्रे, पुरे जन्ममहोत्सवम् ॥ ९१ ॥ खप्ने दृष्टो रिष्टनेमि - र्मात्रास्मिन्गर्भमागते । इति तस्यारिष्टनेमि - रिति नामाऽकरो नृपः | ॥ ९२ ॥ वासवादिष्टधात्रीभि-लल्यमानो जगत्पतिः ॥ समं जगन्मुदा वृद्धिं दधदष्टाब्दिकोऽभवत् ॥ ९३ ॥ अथान्यदा यशोमत्या, जीवश्युत्वाऽपराजितात् ॥ उग्रसेन धराधीश - धारिण्योस्तनयाऽभवत् ॥ ९४ ॥ राजीमतीति संज्ञा सा, प्राप्ता वृद्धिमनुक्रमात् ॥ कलाकलापमासाद्य, पुण्यं तारुण्यमासदत् ॥ ९५ ॥ इतश्च मथुरापूर्या, वसुदेवाङ्गजन्मना ॥ विष्णुना निहते कंसे, जरासन्धसुतापतौ ॥ ९६ ॥ क्रुद्धाद्भीता जरासन्धा - त्सङ्गत्य यदवोऽखिलाः ॥ पश्चिमाम्भोनिधेस्तीरं जग्मुर्देवज्ञशासनात् ॥ ९७ ॥ [ युग्मम् ] तत्र श्रीदोऽच्युताराद्धो, नवम्योजनविस्तृताम् ॥ द्वादशयोजनायामां निर्ममे द्वारकापुरीम् ॥ ९८ ॥ जात्यखर्णमयीं तां च लङ्काशङ्काविधा , द्वाविंशमध्ययनम्. (२२) श्रीनेमिनाथचरित्रम् २८५-२९८ ॥ ४३० ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy