________________
समरकेतश्च, पल्लीशस्तत्र वर्तते ॥ सोऽस्मान् लुण्टति तस्मात्त्वं, रक्ष रक्ष क्षितीश नः ॥४०॥ तन्निशम्य खयं तत्र, द्वाविंशम
ध्ययनम् गन्तमको महीशिता ॥ इति शङ्खकुमारण, नत्वा व्यज्ञपि साग्रहम् ॥ ४१॥ शिशुनागे पक्षिराज, इवोद्योगः खयं
श्रीनेमिनाप्रभोः ॥न युक्तस्तत्र पल्लीशे, तन्मामादिश तज्जये ॥ ४२ ॥ नृपाज्ञया ससैन्येऽथ, शंखे पल्लीमुपागते ॥ दुर्ग विहाय
थिचरित्रम् पलीशः, प्राविशत् क्वापि गह्वरे ॥ ४३ ॥ सुधीः शंखोऽपि सामन्तं, दुर्गे कंचिदवीविशत् ॥ स्वयं पुनर्निलीयास्था-नि- भा२४०-२५४ कुञ्ज क्वापि सैन्ययुक् ॥४४॥ छलच्छेकोऽथ पल्लीशो, यावद्दुर्ग रुरोध तम् ॥ प्रबलैः स्खवलैस्ताव-कुमारस्तमवेष्टयत् ॥४५॥ दुर्गप्रविष्टसामन्त-कुमारकटकैरथ ॥ स्थितैरुभयतोऽघानि, भिल्लेशो मध्यगो भृशम् ॥४६॥ कांदिशीकस्ततः कण्ठे, कुठारमवलम्ब्य सः॥ कुमारं शरणीचक्रे, प्राञ्जलिश्चैवमब्रवीत् ॥४७॥ मायाजालस्य संहर्ता, त्वमेव मम धीनिधे !॥ तव दासोऽस्मि सर्वखं, ममादत्व प्रसीद च ॥४८॥ तेनोपात्तं कुमारोऽथ, दत्वा तत्स्वामिनां धनम्॥ पल्लीनाथं सहादाय, न्यवर्त्तत पुरं प्रति ॥ ४९॥ मार्गे निवेश्य शिविरं, स्थितो रात्रौ स भूपभूः ॥ श्रुत्वा रुदितमातासि-ययौ शब्दानुसारतः ॥५०॥ किंचिद्गतश्च वीक्ष्याऽर्द्ध-वृद्धां स्त्री रुदतीं पुरः॥ किं रोदिषीति सोऽपृच्छ-त्ततः साप्येवमब्रवीत् ॥५१॥ अस्त्यंगदेशे चंपायां, जितारिः पृथिवीपतिः॥ तस्य कीर्त्तिमतीरायां, जज्ञे पुत्री यशोमती ॥५२॥ कलाकलापकुशला, सा विभूषितयौवना ॥ सानुरूपमपश्यन्ती, वरं न वाप्यरज्यत ॥ ५३॥ शंखं श्रीपेणपुत्रं सा-ऽन्यदा श्रुत्वा गुणाकरम् ॥ पति, शंख एवेति, प्रत्यौषीद्यशोमती ॥५४॥ ततः स्थानेऽनुरक्तेय-मित्युच्चै