________________
उत्तराध्ययन ४२८॥
द्वाविंशमध्ययनम्
(२२) श्रीनेमिनाथचरित्रम् २२५-२३९
सुतः प्रभो! ॥ अनङ्गदेवो नाम्नेति, प्रोचिरे तेऽपि भूभुजे ॥२५॥ वाणिजा अपि यस्यैव-मुदाराः परमर्द्धयः॥ सोऽहं धन्य इति ध्यायं-स्ततोऽगाद्भूधवो गृहम् ॥ २६ ॥ द्वितीये च दिने वीक्ष्य, शबं यान्तं जनैर्वृतम् ॥ राज्ञा |कोऽसी मृत इति, पृष्टा भृत्या इदं जगुः ॥ २७ ॥ क्रीडन्नदर्शि यः काम-मुद्याने बस्तने दिने॥स एवानङ्गदेवोऽसौ, द्राग विशूचिकया मृतः ॥ २८ ॥ अहो! अशाश्वतं विश्वं, विश्वेऽस्मिन् सान्ध्यरागवत् ॥ ध्यायन्निति ततोऽध्यास्त, | वैराग्यं परमं नृपः ॥ २९ ॥ इतश्च यः कुण्डपुरे, पुरा दृष्टः स केवली ॥ तत्रागादन्यदा दीक्षा-योग्यं ज्ञानेन तं विदन् ॥ ३०॥ धर्म श्रुत्वा ततो न्यस्य, राज्यं पुत्रेऽपराजितः ॥ तत्पार्थे प्राब्रजप्रीति-मतीविमलवोधयुक् ॥३१॥ तपो व्रतं च सुचिरं, तीनं कृत्वा त्रयोपि ते ॥ विपद्यैकादशे कल्पे-ऽभुवन्निन्द्रसमाः सुराः॥३२॥ । इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ श्रीपेणाहोऽभवद्भपः, श्रीमती तस्य च प्रिया ॥३३॥ स्वप्ने शंखोज्ज्वलं पूर्णचन्द्रं मातुः प्रदर्शयन् ॥ जीवोऽपराजितस्यागा-त्तस्याः कुक्षौ दिवश्च्युतः॥३४॥सा सुतं समयेऽसूत, पूर्णेन्दुमिव पूर्णिमा ॥ तस्योत्सवैः शङ्ख इति, नामधेयं व्यधात्पिता॥३५॥धात्रीभिाल्यमानोऽथ, वृद्धिमासादयन् क्रमात्॥गुरोः कलाः स जग्राह, वार्द्धरप इवाम्बुदः ॥ ३६ ॥ स्वर्गाद्विमलबोधोऽपि, च्युत्वा श्रीपेणमंत्रिणः ॥ नाम्ना गुणनिधेः पुत्रो, जज्ञे| नाम्ना मतिप्रभः ॥ ३७॥ सोऽभूच्छतकुमारस्य, सपांशुक्रीडितः सखा ॥ मधुस्मराविव वनं, यौवनं तौ सहाऽऽमुताम् | ॥ ३८ ॥ अथाऽन्यदा जानपदाः, नृपमेत्यैवमूचिरे ॥ देव ! त्वद्देशसीमाद्रा-चति दुर्गोऽस्तिदुर्गमः ॥ ३९ ॥ नाम्ना
॥४२८॥