SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् ९९-११२ खसदनं ययौ ॥ ९८ ॥ अनङ्गोऽथ सुतां दातुं, प्रैपीन्मंत्रिणमात्मनः ॥ सोऽपि गत्वा प्रणम्यैव-मब्रवीत्सूरचक्रिणम् | ॥ ९९ ॥ अयं चित्रगती रत्न-वती चेयं गुणाधिकौ ॥ स्वर्णरत्ने इव खामिन् !, मिथो योगाद्विराजताम् ॥१०॥ प्रपद्य तन्मुदा सूर-स्तां सुतेनोदवायत् ॥ सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ॥१०१ ॥राज्यं चित्रगतेदत्वा-ऽन्यदा सूरमहीपतिः ॥ आदाय सद्गुरोर्दीक्षां, क्रमाप्राप परं पदम् ॥ १०२॥ ततश्चित्रगतिश्चित्र-कारिविद्याबलोर्जितः ॥ चिरं खेचरचक्रित्व-मन्वभूच्चण्डशासनः ॥१०३॥ खसामन्तसुतौ राज्य-कृते युवा मृर्ति गतौ ॥ वीक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ॥१०४॥ ततो निधाय तनयं, राज्ये चित्रगतिनृपः ॥ पर्यब्राजीहमचरा-चार्यपार्थे प्रियायुतः ॥१०५॥ चिरं विहृत्य प्रान्ते चा-ऽनशनेन विपद्य सः॥ रत्नवत्या समं तुर्यकल्पे देवत्वमासदत् ॥ १०६॥ ___ अथापरविदेहेषु, विजये पद्मसंज्ञके ॥ पुरे सिंहपुरे नाना, हरिणन्दी नृपोऽभवत् ॥१०७॥ तस्य सान्वर्थनामासीभाद्राज्ञी तु प्रियदर्शना ॥ च्युत्वा चित्रगतेर्जीव-स्तत्कुक्षाववतीर्णवान् ॥ १०८ ॥काले चासूत सा पुत्रं, रत्नमाकरभूरिव ॥ तस्याऽपराजित इति, नामधेयं व्यधान्नृपः॥ १०९ ॥ क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः ॥ स प्राप पुण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ॥११० ॥ सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः ॥ जज्ञे विमलवोधाख्यो, द्वितीयमिव तन्मनः ॥ १११ ॥ कुमारावन्यदा वाजि-हृतौ तौ प्रापतुर्वनम् ॥ तदाऽपराजितो मित्रं, मंत्रिपुत्रमदोऽवदत १२
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy