________________
उत्तराध्ययन ॥४२३॥
द्वाविंशमध्ययनम्.
(२२) श्रीनेमिनाथचरित्रम् ८४-९८
मित्रोऽपि,
मित्रर्षि-विहितानशनः सुधीः॥ विपद्य वासवसमो, ब्रह्मलोके सुरोऽभवत् ॥८४॥ पद्मस्तु निशि तत्रैवा-ऽहिदष्टोऽ- गात्तमस्तमाम् ! ॥ सुमित्रं च मृतं ज्ञात्वा, व्यषीदत्सूरसूभृशम् ॥ ८५ ॥ यात्रामहोत्सवे सिद्धा-यतने सोऽन्यदा ययौ ॥ परेऽपि मिमिलुस्तत्र, भूयांसः खेचराधिपाः ॥ ८६ ॥ रत्नवत्या समं तत्रा-ऽनङ्गसिंहोऽप्युपागमत् ॥ तत्र चित्रगतिर्भक्त्या, जिनानभ्यर्च्य तुष्टुवे ॥ ८७॥ मित्रं द्रष्टुं सुमित्रोऽपि, सुरस्तत्रागतस्तदा ॥ चित्रां चित्रगतेर्भि, पुष्पवृष्टिं व्यधान्मुदा ॥ ८८ ॥ विवेदानसिंहोऽपि, तमेव दुहितुः पतिम् ॥ प्रत्यक्षीभूय देवोऽपि, किं मा वेत्सीत्युवाच तम् ॥ ८९॥ देवो महर्द्धिस्त्वमिति, प्रोक्ते सूरभुवा सुरः ॥ प्रत्यभिज्ञाकृते पूर्व-भवरूपमदर्शयत् ॥९॥ |ततो मुदा चित्रगति-रित्युचे परिरभ्य तम् ॥ महाभाग ! मया धर्मो, लेभेऽसौ त्वत्प्रसादतः ॥ ९१॥ देवोऽवादी|दियं लक्ष्मी-स्तदा मे जीवितार्पणात् ॥ त्वयाऽदायि न चेत्तत्र, मृत्यौ देवगतिः क मे? ॥९२॥ उपकारमिति प्राच्यं, वदन्तौ वीक्ष्य तो मिथः ॥ सूरचक्रीप्रभृतयः, सर्वेऽमोदन्त खेचराः ॥ ९३॥ चित्रो नेत्राध्वना रत्न-वत्याश्चित्तेऽविशत्तदा ॥ तत्स्पर्द्धयेव कामोऽपि, तत्रैव विदधे पदम् ॥ ९४ ॥ लजांशुकमपाकृत्य, साथ काममहाकुला ॥ |भावमाविश्चकार खं, चेष्टितैर्विविधैर्दुतम् ॥ ९५॥ तां च कामातुरां वीक्ष्या-ऽनसिंहो व्यचिन्तयत् ॥ ममासिमिव जहेऽसौ, मनोऽप्यस्या महामनाः ॥ ९६॥ ददे तदेनामत्रैव, कालक्षेपेण किं मुधा ? ॥ धर्मस्थानेऽथवा कार्य|मिदं नाहेति धीमताम् ! ॥९७॥ ध्यात्वेति स्वगृहं सोऽगा-द्विसृज्याथ सुहृत्सुरम् ॥ पित्रा समें चित्रगति-रपि
त्युचे परस्त्वमिति, जप, तमेव
॥४२३॥