________________
HAMARS
६९-८३
.
तच ज्ञात्वाऽनङ्गसिंहः, क्रुधाऽधावत सिंहवत् !॥ ६९॥ ततस्तयोरभयुद्धं, दारुणेभ्योऽपि दारुणम् ॥ चित्रं च दुर्जेयं द्वाविंशमज्ञात्वा-ऽनङ्गस्तं खङ्गमस्मरत् ॥ ७० ॥ ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् ॥ तत्खड्गरत्नं तत्पाणा-वापपात ध्ययनमः
श्रीनेमिनाततो द्रुतम् ॥ ७१॥ अनङ्गोऽय जगी मूर्ख !, कि मुमूर्षसि याहि रे !॥ नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाऽ
साथचरित्रम् मुना ॥७२॥ ऊचे चित्रगतिर्लोह-खण्डेनानेन यो मदः॥स ते खबलहीनत्व-मेव सूचयति स्फुटम् ! ॥७३॥ इत्युक्त्वा विद्यया चक्रे, तमस्कायोपमं तमः ॥ पाणिस्थमपि नापश्य-कोऽपि तल्लुप्तलोचनः॥ ७४ ॥ तमसिं तमसि व्यासे, सद्य आच्छिद्य तत्करात् ॥ सुमित्रजामि चादाय, ययौ चित्रगतिस्ततः ॥ ७५ ॥ क्षणाच तिमिरे क्षीणे, नृसिंहोऽनङ्गसिंहराट् ॥ पश्यन्नापश्यत्कृपाणं, पाणौ तं च रिपुं पुरः॥७६ ॥ क्षणं व्यषीदत्स्मृत्वा त-ज्ज्ञानिवाक्यं तुतोष च ॥ ज्ञेयः शाश्वतचैत्येऽसौ, ध्यायंश्चेति गृहं ययौ ॥ ७७ ॥ सुमित्रायाखण्डशीलां, जामिं चित्रगतिर्ददौ ॥ भगिनीहरणोत्पन्न-दुःखात्स तु विरक्तवान् ॥ ७८॥ राज्ये न्यस्य ततः पुत्रं, समीपे सुयशोमुनेः॥ सुमित्रः प्रात्रजचित्र-गतिस्तु खपुरेऽव्रजत् ॥ ७९ ॥ नवपूर्वी किञ्चिदूना-मधित्यानुज्ञया गुरोः ॥ विहरन्नेकदैकाकी, सुमित्रो मगधेष्वगात् ॥ ८०॥ तत्र ग्रामावहिः क्वापि, कायोत्सर्गेण तं स्थितम् ॥ भ्रमंस्तत्रागतोऽपश्य-त्पद्माह्वस्तद्विमातृजः ॥ ८१॥ आकर्ण बाणमाकृष्य, मुनिं हृदि जघान सः ॥ मुनिस्तु तस्मै नाकुप्य-दिति चान्तरचिन्तयत् ! ॥८२॥ दोषो ममैव यन्नाह-मस्मै राज्यमदां तदा ॥ तदेष क्षमयाम्येन-मन्यांश्चासुमतोऽखिलान् ॥ ८३॥ ध्यायन्नितिसु
PAISAIAHAHAHAHAHA
का
H
ALISALMERS