________________
उत्तराध्ययन
॥४२२॥
द्वाविंशमध्ययनम्
(२२) श्रीनेमिनाथचरित्रम् ५४-६८
चित्र-गतिरित्यवदन्मुनिम् ॥ ५४॥ मित्रस्यास्य प्रसादेन, श्रुत्वा वो देशनामिमाम् ॥ श्राद्धधर्म प्रपद्येऽहं, प्रभो! सम्यक्त्वपूर्वकम् ॥ ५५ ॥ इत्युदीर्योलसद्वीर्यो, धर्मकार्ये स खेचरः॥ आददे देशविरतिं, विरतः पापकर्मणः ॥५६॥ ___ अथेत्यपृच्छत्सुग्रीव-स्तं मुनिन्द्रं कृताञ्जलिः ॥ विषं दत्वाऽस्य मत्सूनोः, सा नंष्ट्वा काऽगमद्विभो !॥ ५७॥ मुनि- जंगौ गताऽरण्ये, सा चौरईतभूषणा ॥ पल्लीशायार्पिता सोऽपि, तामदाद्वणिजां धनैः॥ ५८॥ ततोऽपि नष्टा साऽटव्यां, दग्धा दावामिना मृता ॥ प्रथमं नरकं प्राप, पापानां क नु सद्गतिः ! ५९ ॥ ततस्तु निर्गता प्राप्या-अन्त्यजजायात्वमन्यदा ॥ हता सपन्या कलहे, तृतीयां गामिनी भुवम् ॥६०॥ ततस्तूद्धृत्य सा तीये-ग्गतौ दुःखानि लप्स्यते ॥ तदाकये विरक्तात्मा, प्रोवाचेति गुरुनृपः ॥ ६१॥ यत्कृतेदस्तया चक्रे, सोऽस्थादत्रैव तत्सुतः ॥ जगाम | नरकं सा तु, तत्संसारं धिगीदृशम् ॥ ६२॥ इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः ॥ तस्य केवलिनः पार्थे, दीक्षां जग्राह साग्रहम् ॥६३॥ सुमित्रोऽपि समित्रोऽगा-त्सरे पद्माय चार्पयत् ॥ ग्रामान्कत्यपि स त्वेको, निगेत्य काप्यगात्कुधीः॥ ६४॥ सुमित्रमन्यदापृच्छय, खपुरं सूरसूर्ययो॥धर्मकार्य च नो मित्र-मिव स व्यस्मरत्वचित् ॥६५॥
अथ रनवतीभ्राता, कमलोऽनङ्गसिंहसूः ॥ सुमित्रभगिनी जहे, कलिङ्गाधिपतेः प्रियाम् ॥६६॥ तच्छृत्वा व्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् ॥ ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ॥ ६७॥ विद्यया तां हृतां ज्ञात्वा, कमलेन बलान्वितः॥ ययौ चित्रगतिस्तूर्णं, नगरे शिवमन्दिरे ॥ ६८ ॥ कमलेन समं तत्र, न्यग्रहीन्यग्रहीच तम् ॥
॥४२२॥
२४