________________
RECRACAARAKARSA
॥४०॥ नंष्ट्वा भद्रा त्वगालोकै-विषदेयमितीरिता ॥ छन्नं न तिष्ठेत्पापानां, पापं लशुनगन्धवत् ! ॥४१॥ दैवा-18||
द्वाविंशम
| ध्ययनम् तत्रागतश्चित्र-गतियोम्ना ब्रजस्तदा ॥ विलपन्नूपपौरं त-द्ददर्श पुरमातुरम् ॥ ४२ ॥ ज्ञात्वा च विषवार्ता ता-मु
श्रीनेमिनातीर्य नभसो द्रुतम् ॥ मंत्राभिमंत्रिताम्भोभिः, सुमित्रमभिषिक्तवान् ॥४३॥ ततस्तं प्राप्तचैतन्यं, किमेतदितिवादि
थचरित्रम् नम् ॥ नृपोऽवादीद्विमाता ते, भद्राऽदादुल्वणं विषम् ! ॥४४ ॥ अयं चाशमयद्वत्स !, बान्धवो हेतुमन्तरा ॥ तन्नि-17 ४१-५३ शम्य सुमित्रोऽपि, तमित्यूचे कृताञ्जलिः ॥४५॥ खनामवंशाख्यानेन, भ्रातः ! कर्णौ पुनीहि मे ॥ श्रुतं नामादि पुण्याय, त्वादृशां ह्युपकारिणाम् ॥ ४६॥ मित्रं चित्रगतनामा-दिकं तस्मै ततोऽब्रवीत् ॥ तदाकर्ण्य प्रमुदितः, सुमित्रस्तमदोऽवदत् ॥४७॥ विषेण विषदात्रा च, बहूपकृतमद्य मे ॥ अनभ्रामृतवृष्ट्या , नो चेत्त्वदर्शनं कुतः! ॥४८॥ जीवितदातुः पातुश्च, बालमृत्यूत्थदुर्गतेः॥ किं ते प्रत्युपकुर्वेह, घनस्येव जगजनः ! ॥ ४९ ॥ सुमित्रं मित्रतां प्राप्तं, वदन्तमिति संमदात् ॥ पप्रच्छ खच्छधीर्गन्तुं, स्वपुरं सूरनन्दनः ॥५०॥ ऊचे सुमित्रो विहरन् , सुयशाः केवली सखे ! ॥ इहाऽऽगन्ताऽद्य वा श्वो वा, तं नत्वा गन्तुमर्हसि ! ॥५१॥ तेनेत्युक्तः स तत्रास्था-त्तौ चोद्यानेऽन्यदा गतौ ॥ तं मुनीन्द्रं वृतं देवैः, वर्णाजस्थमपश्यताम् ॥५२॥ तयोर्मुदितयोः सम्यक्, तमानम्य निविष्टयोः ॥ श्रुत्वा सुग्रीवभूपोऽपि, तत्रोपेत्य ननाम तम् ॥५३॥ तेषामुपादिशद्धर्म, केवली जगतां हितः॥ तं चाकये मुदा