SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ AAAA% IN EXA4% ASTRORSEE किश्चार्चामन्तरा चैत्य-मिवाद्धर्ममन्तरा ॥ श्लाघ्यं न स्यान्नजन्मेति, प्रयत्यं तत्र धीधनैः ॥ १४ ॥ इत्युदीर्य तयो-16 द्वाविंशमोगं, सम्यक्त्वाणुव्रतादिकम् ॥श्राद्धधर्म जिनप्रोक्तं, मुनिचन्द्रमुनि गौ ॥ १५॥ ततस्तौ प्रत्यपद्येतां, गृहिधर्म ध्ययनम् श्रीनेमिनातदन्तिके ॥ प्रत्यलम्भयतां तञ्च, गृहे नीत्वाऽशनादिना ॥१६॥ ताभ्यां च धर्मशिक्षायै, रक्षितः स महामुनिः ॥ थचरित्रम् तत्र स्थित्वा कियत्कालं, व्यहात्तिदनुज्ञया ॥ १७॥ तौ तु जायापती शुद्धं, श्राद्धधर्म ततः परम् ॥ पर्यपालयतां |१४-२७ स्नेह-मिवान्योन्यमखण्डितम् ॥ १८ ॥ प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् ॥ वसुन्धरमुनिस्तत्रा-न्यदा च समवासरत् ॥ १९॥ तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः॥ प्रणम्य भवपाथोधि-नावं शुश्राव देशनाम् ॥ २०॥विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः॥ प्रव्रज्यामाददे तस्मा-दुरोः प्राज्यमहोत्सवैः ॥२१॥ सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्रमात्॥ व्यहार्षीद्धर्मदानेना-ऽनुगृह्णन् भविनो बहून् ॥ २२ ॥ व्यधत्तानशनं प्रान्ते, धनो धनवतीयुतः ॥ विपद्य तौ च सौधर्मे-ऽभूतां शक्रसमौ सुरौ ॥२३॥ ___ "इतश्च" भरतेऽत्रैव वैताढ्यो-त्तरश्रेणिशिरोमणौ ॥ सूरतेजःपुरे सूर-नामा खेचरचत्रयभूत् ॥ २४ ॥ तस्य विद्युन्मती विद्यु-न्मेघस्येवाजनि प्रिया ॥ धनजीवश्युतः खर्गा-त्तस्याः कुक्षाववातरत् ॥ २५॥ पूर्णेऽथ समयेऽसूत, सुतं सा पुण्यलक्षणम् ॥ पिता तस्योत्सवैश्चित्र-गतिरित्यभिधां व्यधात् ॥ २६ ॥ वर्द्धमानः क्रमान्न्यासी-कृता इव गुरोः कलाः ॥ स गृहीत्वाऽखिलाः प्राप, यौवनं रूपपावनम् ॥ २७॥ E - 5
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy