________________
उत्तराध्ययन
॥ ४१३ ॥
१५
१८
२१
२४
इन्द्रियनोइन्द्रियदमनात् उग्रदान्तः । अपिः पूत, महातपोधनः महामुनिर्महाप्रतिज्ञो दृढव्रत अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रन्थीयं इदं पूर्वोक्तं महाश्रुतं स कथयति महता विस्तरेणेति सूत्रत्रयार्थः ॥५३॥ ततश्चमूलम् - तुट्ठो अ सेणिओ राया, इणमुदाहु कथंजली | अणाहत्तं जहाभूयं, सुद्द मे उवदंसिअं ॥ ५४ ॥ व्याख्या -- तुष्टश्चेति चः पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः पुनरिदमुदाहृतवान् यथाभूतं सत्यम् ॥ ५४ ॥ मूलम् -- तुब्भं सुलद्धं खु मणुस्सजम्मं, लाभा सुद्धा य तुमे महेसी । तुभे साहाय सबंधवा य, जं भे ठिआ मग्गि जिणुत्तमाणं ॥ ५५ ॥ व्याख्या -- 'सुलद्धं खुत्ति' सुलब्धमेव, लाभा वर्णादिप्राप्तिरूपाः 'जं भेत्ति' यद्यस्मात् 'भे' भवन्तः ॥ ५५ ॥ मूलम् - तंऽसि णाहो अणाहाणं, सवभूआण संजया ! । खामेमि ते महाभाग !, इच्छामु अणुसासिउं ५६ व्याख्या -- इह पूर्वार्द्धनोपबृंहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह -तत्र 'तेत्ति' त्वां 'अणुसासिउंति' अनुशासयितुं शिक्षयितुं त्वयात्मानमिति गम्यम् ॥ ५६ ॥ पुनः क्षमणामेव विशेषेणाह -
मूलम् - पुच्छिऊण मए तुब्भं, झाणविग्घो उ जो कओ । निमंतिआ य भोगेहिं, तं सवं मरिसेह मे ॥५७॥ व्याख्या -- 'पुच्छिऊणत्ति' कथं त्वं यौवने प्रब्रजितः ? इत्यादि पृष्ट्वा यो युष्माकं मया ध्यानविघ्नः कृतः, निमंत्रि ताश्च यद्यूयं भोगैस्तत्सर्व मर्षयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ॥ ५७ ॥ अध्ययनार्थोपसंहारमाह
विंशतितम मध्ययनम्.
(२०)
गा५४-५७
॥ ४१३ ॥