________________
६
१२
व्याख्या - श्रुत्वा हे मेधाविन् ! सुष्टु भाषितं इदमनन्तरोक्तं अनुशासनं शिक्षणं ज्ञानेन गुणेन च प्रस्तावाद्विरतिरूपेणोपपेतं ज्ञानगुणोपपेतं, मार्ग कुशीलानां हित्वा सर्व, महानिर्ग्रन्थानां 'वपत्ति' व्रजेस्त्वं 'पहेणंति' पथा ॥ ५१ ॥ ततः किं फलमित्याह -
मूलम् -- चरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालिआणं ।
निरासवे संखविआण कम्मं, उवेइ ठाणं विउलुत्तमं धुवं ॥ ५२ ॥
व्याख्या – 'चरित्तमायरत्ति' मकारोऽलाक्षणिकः, चारित्राचारश्चारित्रासेवनं, गुण इह ज्ञानरूपस्ताभ्यामन्वितश्चारित्राचारगुणान्वितः । ततो महानिर्ग्रन्थमार्गगमनात् अनुत्तरं प्रधानं संयमं यथाख्यातचारित्ररूपं पालयित्वा निराश्रवः संक्षपय्य क्षयं नीत्वा कर्म उपैति स्थानं, विपुलं च तदनन्तानामपि तत्रावस्थितेरुत्तमं च प्रधानत्वाद्विपुलोत्तमं, ध्रुवं नित्यं मुक्तिमित्यर्थः ॥ ५२ ॥ उपसंहारमाह
मूलम् — एवग्गदंतेवि महातवोधणे, महामुणी महापइण्णे महायसे । महानियंठिज्जमिणं महासुअं, से काहए महया वित्थरेणं ॥ ५३ ॥
व्याख्या - एवं उक्तनीत्या स मुनिः कथयतीति संबंधः, स कीदृशः १ इत्याह- उग्रः कर्मशत्रुं प्रति दान्तश्च
विंशतितम
मध्ययनम्. गा५२०५३