________________
उत्तराध्ययन
॥४१२॥
विंशतितममध्ययनम्
(२०) गा५०-५१
किन्तु परोऽपि भवान्तररूपः। तत्रेहलोकाभावः कायक्लेशहेतुलोचादिसेवनात् , परलोकाभावश्च कुगतिगमनात् । एवं च 'दुहओवित्ति' द्विधापि ऐहिकपारत्रिकार्थाभावेन स जन्तुः 'झिज्झइत्ति' ऐहिकपारत्रिकाथसम्पत्तिमतो जनान् वीक्ष्य, धिग्मामुभयभ्रष्टमिति चिन्तया क्षीयते । तत्रेत्युभयलोकाभावे सति, लोके जगति ॥४९॥ ततोऽसौ यथानुतापमापद्यते तथा दर्शयतिमूलम्-एमेवहाछंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं ।
कुररी विवा भोगरसाणुगिद्धा, निरहसोआ परितावमेइ ॥ ५० ॥ । व्याख्या-एवमेवोक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाछन्दाः स्वरुचिकल्पिताचाराः, कुशीलाश्च कुत्सितशीलास्तद्रूपास्तत्वभावाः, मार्ग विराध्य जिनोत्तमानां । कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थः शोको यस्याः सा निरर्थशोका परितापं पश्चात्तापमेति प्राप्नोति । यथा साऽऽमिपगृद्धा मुखात्तपिशितपेशिका परपक्षिभ्यो विपत्प्राप्तौ शोचति, न च ततः कोऽपि विपत्प्रतिकार इति, एवमयमपि भोगरसगृद्ध ऐहिकामुष्मिकापायप्राप्तौ । ततोऽस्य खान्यत्राणाक्षमत्वादनाथत्वमेवेति भाव इति सूत्रत्रयोदशकार्थः ॥ ५० ॥ इदं च श्रुत्वा यत्कार्य तदाहमूलम्--सोचाण मेहावि सुभासिअं इमं, अणुसासणं नाणगुणोववेअं।
मग्गं कुसीलाण जहाय सवं, महानिअंठाण वए पहेणं ॥ ५१ ॥
॥ ४१२॥