________________
KASHNESCAAR
मूलम्-एवं च चिंतइत्ता णं, पसुत्तोमि नराहिवा!। परिअत्ततीए राईए, वेअणा मे खयं गया ॥३३॥ विंशतितमव्याख्या-न केवलमुक्त्वा, किन्तु एवं चिन्तयित्वा च, प्रसुप्तोऽस्मि नराधिप ! परिवर्त्तमानायामतिकामत्यां
गा ३३-३६ रात्रौ वेदना मे क्षयं गता ॥ ३३ ॥ मूलम्-तओ कल्ले पभायंमि, आपुच्छित्ता ण बंधवे।खंतो दंतो निरारंभो, पवइओ अणगारियं ॥३॥
व्याख्या-ततो वेदनापगमनानन्तरं 'कल्लेत्ति' कल्यो निरोगः सन् ॥ ३४ ॥ मूलम्-तओहं नाहो जाओ, अप्पणो अ परस्स य । सोसिं चेव भूआणं, तसाणं थावराण य ॥३५॥
व्याख्या-ततः प्रव्रज्याङ्गीकारात् अहं नाथो योगक्षेमकृज्जातः, आत्मनः परस्य च । तत्रालब्धलाभो योगः, स खस्य रत्नत्रयलाभेन, लब्धस्य च रक्षणं क्षेमः, स तु खस्य प्रमादपरित्यागेन । एवमन्येषामपि धर्मदानस्थैर्यविधानाभ्यां योगक्षेमकारित्वं भाव्यमिति विंशतिसूत्रार्थः ॥ ३५ ॥ कुतो दीक्षादानादनु त्वं नाथो जातो न पूर्वमित्याहमूलम्-अप्पा नई वेअरणी, अप्पा मे कूडसामली। अप्पा कामदुहा घेणू , अप्पा मे नंदणं वणं ॥३६॥
व्याख्या-आत्मेति वाक्यस्य सावधारणत्वादात्मैव नदी वैतरणी, नरकसम्बन्धिनी । आत्मन एवोद्धतस्य तद्धेतुत्वात् । अत एवात्मैव मे, कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली, तथा आत्मैव कामदुधा धेनुरिव धेनुः,